समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 151, कुल 726 में से
संदर्भ में पढ़ें८६ समराङ्गणसूत्रधारे अष्टौ च ककुभो मूर्ताः प्रनृत्ताश्चाप्सरोगणाः । सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥ १८१ ॥ वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च । फलपुष्पावतंसानि वनान्युपवनानि च ॥ १८२ ॥ देवतायतना(न्याद्य?न्यष्ट)गोपुराणि पुराणि च । भवनान्यतिशुभ्राणि शयनासनवन्ति च ॥ १८३ ॥ प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः । पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ॥ १८४ ॥ चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः । सगोत्रजलतागुल्मद्रुमौषधिभृतो नगाः ॥ १८५ ॥ मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च । विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ॥ १८६ ॥ यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च । क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥ १८७ ॥ एतेषां कुट्टने पाते छेदे नाशेऽथवा हृतौ । प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् ॥ १८८ ॥ स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले । उपप्लवो नरेन्द्रस्य भवेज्जनपदस्य च ॥ १८९ ॥ राजते यद्यलङ्कारः सकलो यावदुत्सवम् । अनस्तोऽविप्लुतश्चोर्वीं तदा कृत्स्नां जयेन्नृपः ॥ १९० ॥ नटनर्तकसङ्घेषु प्रनृत्यत्सु पठत्सु च । शुभे शुभं समादेश्यमितरस्मिन्नशोभनम् ॥ १९१ ॥ ये वर्गाः सम्प्रहृष्यन्ति मङ्गल्या गजवाजिनः । सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद् ध्रुवम् ॥ १९२ ॥ १ क. राज्ये विनिर्दिशेत् । २. क. पठत्स्वपि ।