समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 153, कुल 726 में से
संदर्भ में पढ़ें८८ समराङ्गणसूत्रधारे तावद् वृद्धिविधातव्या यावत् क्षेत्रसमोऽङ्गुलैः । ततः प्रमाणमाग्यं यत् तत् पुनर्विनियोजयेत् ॥ २०५ ॥ प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम् । तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥ २०६ ॥ ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः । ब्रह्मणोऽनन्तरं प्राच्यां भवेद् दैवतमार्यमा ॥ २०७ ॥ तत्र यन्त्रस्य पादौ स्तः समुच्छ्रायेण षट्पं(मौ?दौ) । तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥ २०८ ॥ ततः प्रभृति यन्त्रस्य( वाम ? ) वेधो नतो भवेत् । पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥ २०९ ॥ यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत् । वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ॥ २१० ॥ खानिले(?)चतुरो हस्तान् दशहस्तोच्छ्रिते च ते । रुद्रस्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ॥ २११ ॥ सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी । षष्ठी च सवितुर्भागे यमभागे च सप्तमी२ ॥ २१२ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे इन्द्रँध्वजनिरूपणं नाम सप्तदशोऽध्यायः ॥ अथ नगरादिसंज्ञा नामाष्टादशोऽध्यायः । नगरं मन्दिरं दुर्गं पुष्करं साम्परायिकम् । निवासः सदनं सद्म क्षयः क्षितिलयस्तथा ॥ १ ॥ १ द. ख. षट्यमौ । २ द. सप्तमीत्यनन्तरम् अष्टमीत्यधिकः पाठः । ३ द. ख. इन्द्रसंपदाध्या° ।