भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 169, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 169

तानि नित्यं प्रयोज्यानि वर्णानां च मनीषिभिः । आद्याश्चतस्रो मूषाः स्युर्यत्र तत् कृतसंज्ञितम् ॥ १२३ ॥ सर्वद्विगुणकृत् पूर्वप्रत्यग्द्वारं नचान्यथा । आद्यास्तिस्रः पञ्चमी च यस्मिन्नर्चायनं हि तत् ॥ १२४ ॥ तद् भवेत् पश्चिमद्वारं सर्वगुणान्वितम् । यस्मिन्नाद्या द्वितीया च चतुर्थी पञ्चमी तथा ॥ १२५ ॥ तत् पौष्णं दक्षिणद्वारं सर्ववृद्धिकरं नृणाम् । आ?(द्या)¹द्यास्तिस्रस्तथाद्या च यस्मिंस्तद् गृहमुद्गतम् ॥ १२६ ॥ द्वारेण पश्चिमेनैतच्छस्यते दक्षिणेन वा । द्वयाद्याश्चतस्रो यत्र स्युस्तन्मित्रं प्रीतिवर्धनम् ॥ १२७॥ प्रशस्तं क्षत्रियादीनामस्य द्वाः प्राच्यपाचि वा । आद्यास्तिस्रस्तथा षष्ठी यस्मिन् मूषास्तदुत्सुकम् ॥ १२८ ॥ तच्छस्तं पश्चिमद्वारं विप्रादीनां जयावहम् । आद्या द्वितीया तुर्या च मूषा षष्ठी च यत्र तत् ॥ १२९ ॥ याम्य²प्रत्यङ्मुखं शस्तं विन्नं नाम कुलर्द्धितम् । आद्या तृतीया तुर्या च यस्मिन् षष्ठी च तच्छुभम् ॥ १३० ॥ विपक्षं नाम धाम स्याद् द्वारमस्य च पश्चिमम् । द्व्याद्यास्तिस्रो गृहे यस्मिन् मूषा षष्ठी च तच्छुभम् ॥ १३१ ॥ स्याद् याम्यपश्चिमद्वारमाहूतं नाम तद् गृहम् । आद्याद्वितीयापञ्चम्यो यत्र षष्ठी च तद् भवेत् ॥ १३२॥ रुचकं नाम याम्यप्राग्द्वारं सकलकामदम् । एकत्रिपञ्चषष्ठयः स्युर्यत्र तद्वर्धमानकम् ॥ १३३॥ प्राक्पश्चिमोत्तरद्वारं चातुर्वर्ण्यस्य वृद्धिदम् । यत्र स्युर्द्वित्रिपञ्चम्यो मूषाः षष्ठी च तद् गृहम् ॥ १३४ ॥ स्यात् पूर्वदक्षिणद्वारं प्रथितं पृथुसंज्ञया । यस्मिन्नाद्या³श्चतुःपञ्चषष्ठ्यस्तत् कलभं विदुः ॥ १३५॥ १ द. द्व्याद्यां । २ क. याम्यप्रत्यं । ३ 'द्य' क. पाठः ।