भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 172, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 172

तत् क्षिप्रं नाम सुखकृद् यथेष्टं द्वारमिष्यते । त्रिपञ्चम्यष्टमीतुर्या आगस्त्ये पश्चिमामुखे ॥ १६२ ॥ द्वितीयाद्याष्टमीषष्ठ्यो यत्रैकोजं तदुच्यते । तृतीयाद्याष्टमीषष्ठ्यो यत्र तद् द्विर्गतं गृहम् ॥ १६३ ॥ द्वित्रिषष्ठ्योऽष्टमी चापि यस्मिंस्तल्लिहमुच्यते । आद्यातुर्याष्टमीषष्ठ्यो यत्र तत् पर्कमुच्यते ॥ १६४ ॥ षष्ठ्यष्टमीद्वितुर्याभिः(?) स्याद् विलोमाभिधं गृहम् । षष्ठ्यष्टमीद्वितुर्याभिरुद्दण्डमिति कीर्तितम् ॥ १६५ ॥ यस्मिन्नाद्याष्टमीषष्ठीपञ्चम्यो मुण्डमेव तत् । द्विपञ्चम्यष्टमीषष्ठ्यो मूषा मातङ्गसंज्ञिते ॥ १६६ ॥ त्रिपञ्चम्यष्टमीषष्ठयो भवन्त्यस्खलनामनि* । तत् खर्वनाम तुर्याद्यास्तिस्रो यस्मिंस्तथाष्टमी ॥ १६७ ॥ आद्याद्वितीयासप्तम्यः पिनाके स्युस्तथाष्टमी । त्रिसप्तम्यष्टमीपूर्वा यत्रोद्यन्तं तदुच्यते ॥ १६८ ॥ अष्टमीद्वित्रिपञ्चम्यो यस्मिंस्तद् विशिखं गृहम् । आद्या चतुर्थीसप्तम्यः प्रसभे स्युस्तथाष्टमी ॥ १६९ ॥ रजे द्वितुर्यासप्तम्यो मूषाः स्युस्तद्वदष्टमी । त्रिसप्तम्यष्टमीतुर्या यत्र तद् रुचकं विदुः ॥ १७० ॥ प्राक्प्रत्यग्द्वारमेतस्य शूद्राणामतिवृद्धिदम् । सप्तम्याद्याष्टमी मूषा पञ्चम्यपि च सैफले ॥ १७१ ॥ वामे द्विपञ्चसप्तम्यो मूषा ज्ञेयास्तथाष्टमी । त्रिपञ्चसप्तम्यष्टम्यो यस्मिंस्तद् वर्धमानकम् ॥ १७२ ॥ विशेषतो वृद्धिकरं वैश्यानामिति तद्विदः । चतुःपञ्चाष्टसप्तम्यो यस्मिंस्तद् धावनं भवेत् ॥ १७३ ॥ सप्तम्याद्याष्टमीषष्ठ्यो यत्र तत् सहमुच्यते । द्विसप्तषष्ठ्यष्टमीभिर्मूषाभिश्च्रयनं भवेत् ॥ १७४ ॥

  • इदमर्धं क. पुस्तके लुप्तम् । लक्षणवाक्यपाठानुसारेण पूर्वत्र लक्ष्यनिर्देशे अस्खलमिति पाठ्यम् ।