समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 174, कुल 726 में से
संदर्भ में पढ़ेंचतुःशालविधानं नामैकोनविंशोऽध्यायः । १०९ शान्ते द्वितुर्यापञ्चम्यः पूर्वा स्यादष्टमी तथा । पूर्वात्रितुर्यापञ्चम्यः साष्टम्यश्चैतसंज्ञिते ॥ १८८ ॥ विनोदे द्वित्रिपञ्चम्यश्चतुर्थी चाष्टमी तथा । सन्दोहे त्वष्टमीषष्ठ्यै तिस्रः पूर्वादिकास्तथा ॥ १८९ ॥ आद्याद्वितुर्याषष्ठीभिरष्टम्या विप्रदोहकम् । षष्ठ्यष्टमीत्रितुर्याद्या यस्मिंस्तद् विद्रुतं विदुः ॥ १९० ॥ द्वित्रितुर्याष्टमीषष्ठ्यो यत्र तत् सततं मतम् । आद्याद्विपञ्चमीषष्ठ्यस्ततनाम्नि तथाष्टमी ॥ १९१ ॥ आद्यात्रिपञ्चमीषष्ठ्यो व्याकुले स्युस्तथाष्टमी । द्वित्रिपञ्चचतुष्षष्ठ्यो विज्ञेया लीनसंज्ञके ॥ १९२ ॥ तुर्याद्यापञ्चमीषष्ठ्य आलीने स्युस्तथाष्टमी । द्वितुर्यापञ्चमीषष्ठ्यो विचित्रे तद्वदष्टमी ॥ १९३ ॥ आद्याश्चतस्रो मूषाः स्युः साष्टम्यो लम्बनाह्वये । आद्यास्तिस्रोऽष्टमी तद्वत् सप्तम्यपि भवेत् खरे ॥ १९४ ॥ शेखरे सप्तमीतुर्याद्वितीयाद्यास्तथाष्टमी । विबुधे त्वष्टमी तुर्या तृतीयाद्याथ सप्तमी ॥ १९५ ॥ चैत्राख्ये ह्यष्टमीतुर्यासप्तम्यः सतृतीयकाः । आद्याद्विपञ्चसप्तम्यो व्यासक्ताख्ये तथाष्टमी ॥ १९६ ॥ आद्यात्रिपञ्चसप्तम्यः साष्टम्यः सम्पदाभिधे । यत्र द्वित्र्यष्टमीपञ्चसप्तम्यस्तत् पदं विदुः ॥ १९७ ॥ तुर्याद्यापञ्चमी[षष्ठी]सप्तम्यस्त्रिशिखे तथा । द्विपञ्चम्यष्टमीतुर्यासप्तम्यश्चतुराभिधे ॥ १९८ ॥ त्रिसप्तम्यष्टमीतुर्यापञ्चम्यः प्रान्तनामनि । आद्याद्वितीयासप्तम्यः षष्ठ्यष्टम्यौ च सुस्थिते ॥ १९९ ॥ दुःस्थितं यत्र षष्ठ्याद्या चतुर्थी सप्तमी तथा । स्थितेऽष्टमीद्विसप्तम्यस्त्रिषष्ठ्यावपि च स्मृते ॥ २०० ॥