भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 180, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 180

द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । ११३ यद् द्वित्रिशालगृहलक्ष्म तदप्यमुष्मिन् सामान्यतो द्वितययोगभवं च सम्यक् ॥ ३६ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे निम्नोच्चफलच्छत्रादिसंज्ञालिन्दफलसद्वास्तुफलद्विशालत्रिशाल- गृहसङ्घट्टलक्षणफलानि नाम विंशोऽध्यायः ॥ अथ द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । अथ द्वासप्ततेर्ब्रूमस्त्रिशालानां यथाक्रमम् । अभिधानानि कात्स्न्येन लक्षणानि पृथक् पृथक् ॥ १ ॥ मुख्यानि तेषु चत्वारि कथ्यन्ते तानि नामतः । हिरण्यनाभं सुक्षेत्रं चुल्ली पक्षघ्नमेव च ॥ २ ॥ हिरण्यनाभमुत्कृष्टं हीनमुत्तरशालया । तत् स्याद् धनप्रदं भर्तुः सुक्षेत्रं पूर्वया विना ॥ ३ ॥ सुक्षेत्रं लक्षणोपेतमृद्धिवृद्धिप्रदं विभोः । चुल्ली दक्षिणया हीना शालया वित्तनाशिनी ॥ ४ ॥ पक्षघ्नं पश्चिमाहीनं वैरकृत् कुलनाशनम् । अलिन्दयोगादेतेषां लघुप्रस्तारयोगतः ॥ ५ ॥ मूषायोगाच्च भेदाः स्युरष्टादश पृथक् पृथक् । जाम्बूनदं हिरण्याख्यं रुक्माख्यं हेमसंज्ञितम् ॥ ६ ॥ कनकं काञ्चनं स्वर्णं सुवर्णं च ततः परम् । सन्तापसंज्ञं सारं च तथा चामीकराह्वयम् ॥ ७ ॥ तपनं तापनीयं च शातकुम्भमथापि च । हिरण्यनाभं कल्याणं भूषणं भूतिभूषणम् ॥ ८ ॥ १ द. ख. रुक्माभं । २ द. ख. भूमिभू० ।