समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 207, कुल 726 में से
संदर्भ में पढ़ें१७२ समराङ्गणसूत्रधारे स्यात् त्रयोदशभद्राणां षष्ट्यग्रं शतपञ्चकम् । स्याच्चतुर्दशभद्राणां विंशत्यभ्यधिकं शतम् ॥ ११५ ॥ वेश्मानि स्युस्तथा पञ्चदशभद्राणि षोडश । एकमेव हि विज्ञेयं गृहं षोडशभद्रकम् ॥ ११६ ॥ † पञ्चषष्टिसहस्राणि षट्त्रिंशं शतपञ्चकम् । गृहाणामष्टशालानां भवत्येकत्र सङ्ख्यया ॥ ११७ ॥ स्यात् समानचतुश्शालद्वययोगात् समासतः । एकैकशालयोगाच्च नवशालचतुष्टयम् ॥ ११८ ॥ सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः । एकैकशालयोगाच्च चत्वारिंशत् तथापरा ॥ ११९ ॥ तुल्यत्रिशालत्रितययोगेन च चतुष्टयम् । गृहाणां नवशालानामन्यदुक्तं पुरातनैः ॥ १२० ॥ संस्थानमुक्तं गेहानां नवशालात्मनामिदम् । मूषावहनभेदेन तत्सङ्ख्या कथ्यतेऽधुना ॥ १२१ ॥ अवहन्मूषमेकं स्याद् वहन्त्याष्टादशैकया । द्वाभ्यां शतं त्रिपञ्चाशदधिकं वेश्मनां भवेत् ॥ १२२ ॥ तिसृभिः स्युः शतान्यष्टौ सह षोडशभिर्गृहैः । षष्ट्या सहस्रत्रितयं ताभिश्चतसृभिर्भवेत् ॥ १२३ ॥ पञ्चाशीतिशतान्यष्टषष्टियुक्तानि पञ्चभिः । वहन्तीभिः प्रजायन्ते मूषाभिरिह वेश्मनाम् ॥ १२४ ॥
१ द. भद्राणां भं° । २ द. ख. °न्त्यष्टा° ।
| † अष्टशालगृहाणामैक्यं ६५५३६ षोडशगुरुणां प्रस्तारे | गृह १ | १६ | १२० | ५६० | १८२० | ४३६८ | ८००८ | ११४४० | १२८७० | | | भद्र ० | १ | २ | ३ | ४ | ५ | ६ | ७ भद्र | ८ | | | भद्र १६ | १५ | १४ | १३ | १२ | ११ | १० | ९ भद्र | • |
इति टिप्पणं दत्तमस्ति क पुस्तके ॥