समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 307, कुल 726 में से
संदर्भ में पढ़ें२४२ समराङ्गणसूत्रधारे यूपोच्छ्रायमिव ब्रूयाद् दारूणामपि चोच्छ्रयम् । भङ्गेन भङ्गो निर्दि(र्दे)श्यः समाधिश्च समाधिना ॥ ४ ॥ नवकर्मणि यत् स्निग्धं सुगन्धि प्रियदर्शनम् । गम्येहरं(?)मनुष्याणां धन्यं तदभिनिर्दिशेत् ॥ ५ ॥ पुरं वा यदि वा ग्रामो गृहं वा यदि निष्प्रभम् । आयासबहुलं तद्धि तादृशैर्लक्षणैर्भवेत् ॥ ६ ॥ परिध्वस्तोपमं रूक्षं नवकर्मणि यद् भवेत् । श्रमं रोगं च शोकं च तस्मिने वेश्मनि निर्दिशेत् ॥ ७ ॥ जैनेन च यदाकीर्णं निश्छायमिव लक्ष(क्ष्य)ते । कुटुम्बी तत्र षण्मासान् नात्र जीवेन्न संशयः ॥ ८ ॥ यच्छून्यमप्यशून्याभं वेश्म वा यदि वा पुरम् । सर्वकामगुणैर्युक्तं धनं(न्यं) तदभिनिर्दिशेत् ॥ ९ ॥ पूर्वो नगरभागश्चेद् रम्यः स्यात् प्रियदर्शनः । प्रियभार्या मनःस्वास्थ्यं धनं धान्यं च भूपतेः ॥ १० ॥ पूर्वदक्षिणभागश्चेत् पुरस्य प्रियदर्शनः । महद् यशस्तदाप्नोति राजा हेम च पुष्कलम् ॥ ११ ॥ पुरस्य दक्षिणो भागो यदा रम्यस्तदा भवेत् । राज्ञः सेनापतिप्राप्तिर्धनं धान्यं च पुष्कलम् ॥ १२ ॥ रमणीयो यदा भागः पुरदक्षिणपश्चिमः । अर्थसंपत् तदा राज्ञः प्रजावृद्धिश्च जायते ॥ १३ ॥ पुरपश्चिमभागेन रमणीयेन पार्थिवः । पुत्रबान्धवधान्याढ्यः संप्राप्नोत्युन्नतिं पराम् ॥ १४ ॥ पश्चिमोत्तरभागे तु रमणीये नराधिपः । प्रेष्यैः पुत्रैर्वाहनैश्च वृद्धिमेत्युत्तरोत्तरम् ॥ १५ ॥ १ द. च । २ द. तस्मिं चास्मं । ३ ख. ग. य । ४ द. मेव लक्षते । ५ ख, ग, वान् धनवानाढ्यः; द. पुत्रवान् धनधानाद्य । ६ क. ति नरोत्तमः, ख. त्युत्तरोत्तर !