समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 309, कुल 726 में से
संदर्भ में पढ़ें२६४ समराङ्गणसूत्रधारे श्रेष्ठा¹ तु महिला तत्र षड्भिर्मासैर्विर्नश्यति । एवमेव नवं यस्य सदनं तु विनश्यति ॥ २७ ॥ प्रेष्यदासाँ²दिविश्वासात्³ तँदू⁴ विनाशयति ध्रुवम् । पृष्ठवंशो नवो यस्य नवकर्मणि भिद्यते⁵ ॥ २८ ॥ कुटुम्बी म्रियते तत्र गृहं संवत्सरात् परम् । प्रेष्याश्चात्र विनश्यन्ति दीर्यमाणे⁶ विशेषतः⁷ ॥ २९ ॥ लुमासु भिद्यमानासु कन्यामरणमादिशेत् । मुण्डकेषु विनष्टेषु सुहृर्दस्य⁸ विनश्यति ॥ ३० ॥ अनुपूर्वेषु भिन्नेषु⁹ पुत्राणां मरणं ध्रुवम् । विपत्तौ मुँण्डगोधानां¹⁰ माता तस्य विनश्यति ॥ ३१ ॥ नागँ¹¹पाशकभङ्गे¹² तैं¹³ भृत्यानां मरणं भवेत् । कपाटे भ्रातृमरणँ¹३मर्गलायां स्त्रिया वधः ॥ ३२ ॥ सुतस्य चार्गलापार्श्वे¹⁴ विनष्टे मरणं भवेत् । द्वारबन्धे विनष्टे तु शीघ्रं कुँर्यात् कुलक्षयम् ॥ ३३ ॥ इन्द्रकीलो दृढो यस्य भङ्गमायाति मूलतः । सपुत्रपशुवर्गस्य तस्य ब्रूयात् कुलक्षतिम्¹५ ॥ ३४ ॥ तोरणं भज्यते यस्य द्रव्यं तस्य विनश्यति । गृहभर्तुश्च मरणं त्रिदशैरवधारयेत् ॥ ३५ ॥ वास्तुमध्ये विनष्टे तु कुलवृद्धो विनश्यति । सोपानं भिद्यते यत्र नवकर्मणि निश्चिते ॥ ३६ ॥ तस्य प्रेष्याश्च गावश्च हिरण्यं च विनश्यति । वेदिका भज्यते यस्य भार्या तस्य विनश्यति ॥ ३७ ॥ १ श्रेष्ठयातु । २ द. प्रेष्यां दस्सा सिविश्वास्यास्तद्भिभासयति°; क. क्ष. । ३ ख. ग. सिविश्वा- स्यास्तद् विभासय । ४ क. तं वि । ५ ख. ग. द. भज्यते । ६ ख. ग. वी; द. वीर्यमाणो । ७ क. प्यमानो वि । ८ द. °स भयं°; ख. ग. भज्यमा । ९ ख. ग. त्त । १० द. पं° । ११ द. °कं° । १२ क. षु । १३ द. °णं° । १४ द. व; क. व्य । १५ ख. ग. ब्रयान् । १६ ख. ग. द. यम् । १७ ख. ग. द. भज्यते ।