समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 318, कुल 726 में से
संदर्भ में पढ़ेंतोरणभङ्गादिशान्तिकं नाम षट्चत्वारिंशोऽध्यायः २५३ भज्यते दह्यते वाथ नमते सज्जतेऽथवा । दवविद्युज्जलाद्यैर्वा हन्यते तत् कदाचन ॥ २ ॥ तत्र दोषान् प्रवक्ष्यामो दोषप्रशमनानि च । तोरणं निपतेत् सर्वं शिरो वास्य कथञ्चन ॥ ३ ॥ राज्ञां सेनापतीनां च प्रतीहारपुरोधसाम् । प्रधाना³श्वगजानां च विप्रपौरजनस्य च ॥ ४ ॥ तत्र मृत्युभयं विद्या⁴द् दुर्भिक्षं चापि निर्दिशेत् । तस्मात् प्रशमहेत्वर्थं विधिं कुर्यादिमं⁵ बुधः ॥ ५ ॥ ऋत्विग्भिर्ब्राह्मणै६र्धीरः स्थपतिः सपुरोहितैः । रात्रौ होमबलिं कुर्यान्नगरे तु चतुर्दिशम् ॥ ६ ॥ कर्णचत्वरशृङ्गाटेष्ववनीपालवेश्मनि । स्थानेष्वेतेषु विप्राद्यैर्वेदिं निष्पाद्य साक्षताम् ॥ ७ ॥ कलशैर्द्रव्यगन्धैश्च श्वेतमाल्याम्बरैर्वृताम् । तत्र होमं प्रकुर्वीत शान्तिकं बलिमेव च ॥ ८ ॥ एवं प्रशमयेत् सर्वं यत्किञ्चिद् दुरितोत्थि⁸तम् । तोरणं भज्यते चेत् तद्राष्ट्रभङ्गं विनिर्दिशेत् ॥ ९ ॥ अस्य प्रशमहेत्वर्थं पूर्वोक्तं कारयेद् विधिम् । तदै⁹वकं प्रदह्येत तोरणं नगरे१० र्य(य)दि ॥ १० ॥ तदा वह्निभयं ब्रूयाद् राष्ट्रस्य नगरस्य च । सबाह्याभ्यन्तरं विप्रैर्विधिमेनं प्रयोजयेत् ॥ ११ ॥ नते वा शीर्णभग्ने वा व्याधिपीडां विनिर्दिशेत् । होमं बलिं च कुर्वीत पुनःसंस्कारमस्य च ॥ १२ ॥ वातेन विद्युता११ वापि तोरणं यदि भज्यते । तस्मिन् रोगाः प्रवर्तन्ते कुलपीडाधन¹²क्षयोः ॥ १३ ॥ १ द. भिद्यते । २ द. नृपते । ३ ख. ग. द. ˚नानां ग˚ । ४ द. ˚यं ब्रूयान् दु˚ । ५ द. ˚मां । ६. क. वीं; द. धीरैः । ७ द. स्थि । ८ द. ज्ञो । ९ क. तदा चैकं । १० ग. रै; द. ˚र्ययदि । ११ द. ˚तो । १२ क. ग. द. यः ।