समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 399, कुल 726 में से
संदर्भ में पढ़ें३३४ समराङ्गणसूत्रधारे
जङ्घा स्कन्धश्च तं कर्ण(?) भद्रं चाप्यस्य यद् भवेत् । सर्वतोभद्रवत् सर्वं तद् विधेयं चतुर्दिशम् ॥ १४२ ॥ तस्य भद्राणि सर्वाणि भित्तिभिः परिवेष्टयेत् । भद्रे भद्रे पुनश्चास्य वर्धमानं निवेशयेत् ॥ १४३ ॥ पञ्चभागास्तथा सार्धाः शिखरस्योदयो भवेत् । सर्वतोभद्रकाकारा रथिकांश्चात्र कारयेत् ॥ १४४ ॥ कुर्यात् षडंशो विस्तीर्णशिखरं प्र+धोच्छ्रितम्(?) । सर्वतोभद्रसंस्थानादेशां चास्वत्र योजयेत्(?) ॥ १४५ ॥ ग्रीवा चामलसारं च कुम्भश्चापि तथा भवेत् । प्रासादो नन्दनो नाम कर्तव्यो देवातालयः ॥ १४६ ॥ कृतेऽस्मिन् नन्दति स्वामी दुरितानि च निर्दहेत् । नन्दनः ॥ भक्ते द्वादशधा क्षेत्रे चतुरश्रीकृते ततः ॥ १४७ ॥ सप्तवर्गपदो^७ गर्भो भित्त्या सह विधीयते । सपादपादिकां भित्तिगर्भे(?)कुर्याद् विचक्षणः ॥ १४८ ॥ बाह्यभित्तिश्च तद्वत् स्यात् तद्वच्चाप्यन्धकारिकां । पीठोच्छ्रयस्तथा जङ्घा कर्णेषु रथिकाश्च यांः ॥ १४९ ॥ सर्वतोभद्रकाकारान्मूलकर्णांश्च योजयेत् । एकैकां रथिकां चान्यां विन्यसेत् पक्षयोर्द्वयोः ॥ १५० ॥ चतस्रो रथिकाश्चैवं कर्णे कर्णे निवेशयेत् । शेषो भद्रस्य विस्तारः स्वविस्तारार्धनिर्गतः ॥ १५१ ॥ भूषयेत् सिंहकर्णैश्च भद्रव्यासार्धमुन्नतैः । विन्यसेच्छिखरं तत्र भागैर्विस्तृतमष्टभिः ॥ १५२ ॥ चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् । स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ॥ १५३ ॥
१ द. जंघा स्कंधश्च भद्रं वा......प्यस्य । २ द. पुनः स्वास्य । ३ द. रतिका° । ४ द. °शान् विस्तीर्णं शिखरं सप्त वोच्छ्रितम् । ५ द. °ना प्रपां चाम्य प्र° । ६ द. निर्हरेत् । ७ द. °प्रदो । ८ द. °कां मित्तिं गर्भे । ९ द °काः । १० द. या । ११ द. °की । १२ द. विन्यासात् । १३ द. स्तु । १४ द. समुच्छ्रित तद्दशाभिर्विधेयमतिसुन्दरम् । चतुर्गुणेन...।