समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 443, कुल 726 में से
संदर्भ में पढ़ें३८० समराङ्गणसूत्रधारे आयामनिर्गमा(मौ) चास्य चतुर्भागा चतुष्किका । चतुष्पदो मध्यगर्भो(र्भः) चतुर्द्वारस्य शस्यते ॥ विस्ताराद् द्विगुणोच्छ्रायन्यू(यमू)र्ध्वमानं विधीयते । विदध्याद् वेदिकाबन्धं सार्धभागय(गेन) संमितम् ॥ सार्धैश्चतुर्भिः कुर्वीत भागैर्जङ्घोच्छ्रितिं बुधः । मालामन्तरपत्रं च भागेनैकेन कारयेत् ॥ सार्धद्विभागिकं शृङ्गं कलशाण्डकसंयुतम् । तस्यार्धमपरं शृङ्गं तावन्मानं विधीयते ॥ षड्भागविस्तृतां जङ्घामन्तर्या भागसप्तकम् । तद्विस्तारदशांशै(शै)स्यात् षड्भिः स्कन्धस्य विस्तृतिः ॥ ग्रीवायास्तु विधातव्या पदस्यार्धं समुन्नतिः । भागेनाण्डकमुच्छ्रायो भागेनार्धेतु(न) चन्द्रिका ॥ द्विपदं कलशं कुर्यात् समसूत्रं सुशोभनम् । प्रासादोऽयं विशालः स्यादेवं सप्तदशाण्डकम् ॥ यः करोति स लोकेऽस्मिन्(+ रं) नागाधिपो भवेत् । लभते च बहून् कामान् देहान्ते चोत्तमं पदम् ॥ विशालः ॥ ब्रूमोऽथ लक्ष्म(क्ष्मी)दयितं प्रासादं कमलोद्भवम् । सिद्धगन्धर्वसहितं स्कन्दो यत्र व्यवस्थितः ॥ चतुरश्रं समं क्षेत्रं भुवि दिक्षु विदिक्षु च । कृत्वा वृत्तं समालिख्य भागैर्द्वात्रिंशता भत्रे(जे)त् ॥ भागौ द्वौ द्वौ ततः कुर्यादेकैकां दलपङ्क्तिकाम् । कर्णं षोडशभिः का(कु)र्यादम्भोजसदृशाकृतिः(म्) ॥ पञ्चभिर्भाजिते सीम्नि गर्भो भागत्रयं भवेत् : अधस्तादा(सँमत्त स्यात् ?) पद्मपीठं प्रकल्पयेत् ॥ १ 'नरो' इति स्यात् । २ 'सनं तस्य' इति स्यात् ।