समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 507, कुल 726 में से
संदर्भ में पढ़ें४४४ समराङ्गणसूत्रधारे गर्भ¹स्यार्धेन निष्क्रान्तं भद्रं कुर्वीत मन्द²रे । ³+++ मेरुसङ्काशं विन्यस्येत् सर्वतोदिशम् ॥ ११६॥ वलभी⁴ मध्यदेशे तु शिखरोर्ध्वसमुद्भूता⁵ । सर्वमा(म)न्यत् प्रमाणं तु मेरोरिव भवेदिह ॥ ११७॥ मन्दरः ॥ कैलासमथ वक्ष्यामो दशधा तं विभाजयेत् । भद्रं षड्भागविस्तारं मध्यदेशे विनिःसृतम् ॥ ११८॥ कर्ण(र्णा) द्विभागविस्ताराः सलिलान्तरवर्जिताः । गर्भस्यार्धेन निष्कासः कार्यो भद्रस्य सर्वतः ॥ ११९॥ (लँतिस्याखरं ?) मध्ये शिखराधसमोदयम् । भित्तिगर्भभ्रमन्तीनां जङ्घामेखलयोरपि ॥ १२०॥ विस्तारमुदयं चास्मिन् विदध्यात् स्कन्धशृङ्गयोः । मेरोरिवास्मिन् प्रासादे (वैवचद्ध ?) ग्रीवाण्डकस्य च ॥ १२१ ॥ कैलासः ॥ ब्रूमोऽथ हंसक(म)स्य स्याद् विभागो रुचके यथा (?) । जलान्तरं विशेषोऽत्र शेषं⁹ भ(रु) चंकवद् भवेत् ॥ १२२॥ हंसः ॥ भद्रस्य लक्षणं ब्रूमो दशधा तं विभाजयेत् । गर्भविस्तारमानेन स्यादस्मिन् भद्रविस्तृतिः¹¹ ॥ १२३॥ सार्धद्विभागविस्तारौ रथकौ वामदक्षिणौ । गर्भाधा(?) तुल्यमायामात्¹² प्राग्ग्रीवं चेह(लं ?) कारयेत् ॥ १२४॥ प्राग्ग्रीवस्य समुत्सेधं शिखराधेन कारयेत् । वलभीं¹³ मध्यदेशेऽस्य सिंहकर्णसमन्विताम् ॥ १२५ ॥ १ द. र्गं । २ द. न्दिं । ३ द. मंदिरं । ४ द. भीं । ५ द. च्छ्रिता । ६ द. लतिः स्याच्छिखरं मध्ये । ७ द. न्ता । ८ द. व बद्ध । ९ द. षे । १० द. व । ११ द. स्तृ । १२ द. सा । १३ द. भी ।