समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 511, कुल 726 में से
संदर्भ में पढ़ें४४८ समराङ्गणसूत्रधारे मूलजङ्घात्रिभागेन खुरवेदिसमुच्छ्रितिः¹। ( सच ?) मध्ये तु शृङ्गे द्वे कर्तव्ये² वामदक्षिणे ॥ १६७ ॥ उच्छ्रायाद् द्विपदे स्यातां विभक्ते सर्वतोदिशम् । मूलकर्णेषु शृङ्गाणां त्रिपदा स्यात् समुच्छ्रितिः ॥ १६८ ॥ +++++ सेवापि चतुरङ्गुलमेव वा । कुर्याज्जालौ( ध ?)विस्तारं श्रीवत्से नन्दने यथा ॥ १६९ ॥ विस्ताराद् द्विगुणोत्सेधः स्कन्धः षड्भागविस्तृतः । उत्सेधस्य त्रिभागेन जङ्घोत्सेधो विधीयते ॥ १७० ॥ तृतीयांशेन जङ्घायाः कुर्वीत खुरपिण्डिकाम् । मेखलान्तरपत्रं च विदध्यात् सार्धभागिकम् ॥ १७१ ॥ विभाज्या दशभिर्भागैः पूर्ववत् स्कन्धविस्तृतिः⁴। सार्धद्वैगुणविस्तृत्या पूर्वा कर्कटना भवेत् ॥ १७२ ॥ चतुर्गुणेन सूत्रेण मध्या कर्कटना भवेत् । श्री( ग्री )वार्थभागमुत्सेधात् कुमुदं कुम्भकं पुनः ॥ १७३ ॥ अस्मिन्नामलसारं च यथा⁵ चाद्ये तथा भवेत् । श्रीवत्सः ॥ पद्मनाभंमथ ब्रूमः पद्मशालाभिरन्वितम् ॥ १७४ ॥ द्वितीयः⁶ पद्मकॊ ह्येष पद्ममालाधरः शुभः । सर्वमन्यत् प्रमाणं तु पद्मस्वस्तिकयोर्यथा ॥ १७५ ॥ पद्मनाभः ॥ वैराजमथ वक्ष्यामि⁷ स विज्ञेयो विमानवत् । ( रूपशिखं + मुत्सेधस्तम्भग्रीव + रूपकम् ? ) ॥ १७६ ॥ संभातोरणनिर्यूहसिंहकर्णा( र्णै )श्च तादृशैः¹²। साधारं चतुरश्रं च तं कुर्यात् पञ्चभूमिकम् ॥ १७७ ॥ १ द. तिं । २ द. व्यो । ३ द. जलाध । ४ द. तिं । ५ द. त्रि । ६ द. यथैवाद्ये । ७ द. क । ८ द. यं । ९ द. मः । १० द. वे । ११ द. स्तंभ । १२ द. शः ।