समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 513, कुल 726 में से
संदर्भ में पढ़ें४५० समराङ्गणसूत्रधारे विस्तारो द्विगुणैः कार्यः स्कन्धोत्सेधप्रमाणतः । पञ्चभागोच्छ्रिता जङ्घा मेखला सार्धभागिकी ॥ १७८ ॥ खुरकं वेदिबन्धं च तैत्त्रिभागेन कल्पयेत् । भागत्रयोच्छ्रितानि स्युः शृङ्गाणि च चतुर्दिशम् ॥ १७९ ॥ सिंह(स्य) कर्णवन्मध्ये वलभी भूषयेद् बुधः । सर्वमन्यत् प्रमाणं च सर्वतोभद्रवद् भवेत् ॥ १८० ॥ सिंहः ॥ विचित्रकूटं वक्ष्यामो दशधा तं विभाजयेत् । (४द्विभागिको मूलभद्रस्य ?) हस्ततुल्याङ्गुलो भवेत् ॥ १८१ ॥ शालामध्यप्रदेशे तु वलभीं सन्निवेशयेत् । कूटे द्वे सर्वतो न्यस्येच्छ्लिष्टे + मूलक + योः ॥ १८२ ॥ एष भेदः समुद्दिष्टः शाला स्यात् कूटवर्जिता । प्रमाणमन्यत् सर्वं तु विज्ञेयं चित्रकूटवत् ॥ १८३ ॥ ६विचित्रकूटः ॥ योगपीठमथ ब्रूमात्रिविष्टपमिवोत्तमम् । विभजेद् भागविंशत्या चतुरश्रं समन्ततः ॥ १८४ ॥ (कोष्ठान्यद्भागविस्तारा ?) कुर्याद् दिक्षु विदिक्षु च । भागिकौ जलमार्गौ च विदध्याद् वामदक्षिणौ ॥ १८५ ॥ विस्तारात् तेषु गर्भः स्याद् भागत्रितयसंमितः । पञ्चभागोच्छ्रिता जङ्घा कपोतान्तरवर्जिता ॥ १८६ ॥ खुरकं वेदिबन्धं च कुर्याद् भागत्रयोच्छ्रितम् । विस्तारात् (कुर्याद् दिक्षु ?) द्विगुणोच्छ्रायः कार्योऽयं पञ्चभूमिकः ॥ सिंहकर्णै रथैर्घण्टाभ्रमिकास्तम्भतोरणैः । रचनास्य विधातव्या कथिता पुष्पके तथा ॥ १८८ ॥ १ द. रा । २ द. णा । ३ द. त्रि । ४ द. द्विभागिकौ मूलकर्णौ षड्भागाद्द्रुद्विविस्तृतिः । निर्गमो मूलभद्रस्य हस्ततुल्यांगुलो भवेत् । ५ द. न्यस्येत्संश्लिष्टे मूलकर्णयोः । ६ द. मुद्रित पुस्तके 'विचित्र' इति लक्ष्य निर्देशे पठितः । ७ द. य ।