समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 557, कुल 726 में से
संदर्भ में पढ़ें४९६ समराङ्गणसूत्रधारे चतुःस्तरो भवेत् कुम्भः स्तरं कण्ठस्ततो भवेत् । स्तरमेकं ततः कर्णो द्विस्तरं बीजपूरकम् ॥ ६७ ॥ चतुर्भिः कूटविस्तारं ततो ( १भागे विराजयेत् ? ) । द्विभागं मञ्जरी कार्या स्तै(२शू)रसेनेनरलङ्कृतौ ॥ ६८ ॥ वरण्डिकाख्यो बन्धश्च भागं भागं ( भागं ? ) भवेत् ततः । विस्तारं(राद् ) मूलमञ्जर्याः शुकनासां३ प्रकल्पयेत् ॥ ६९ ॥ अथ निर्णीयते द्वयर्धपादाख्यं तत्र विस्तृतिः । उच्छ्रायाद् द्विगुणा कार्या पञ्चभागक्रमोऽथवा ॥ ७० ॥ शूरसेनोऽथवा कार्यः ४शु(क)नासास्त्रिवे(धे५)त्यसौ । कृत्वा त्रिभागमुच्छ्रायं च(६म)करं चोर्ध्वभागिकम् ॥ ७१ ॥ स्तम्भयुक्तं गुणद्वारं (स्योतस्योधिः संप्रताम् ? ) । अर्धप्र(श ?)स्तरसंयुक्तं कुर्यात् + पार्श्वयोर्द्वयोः ॥ ७२ ॥ कर्तव्यं गर्भकूटं वा शुभं तत्र विपश्चिता । द्वितीयभूमिकायां तु पीठं सास्त(र्ध)दशस्तरम् ॥ ७३ ॥ (७मेलान्ततोवती ? ) जङ्घा माला कार्या चतुःस्तरा८ । लशुनं द्विस्तरं प्रोक्तं स्तरं भरणमिष्यते ॥ ७४ ॥ कुम्भं( ? ) तद्वत् प्रकर्तव्यमुच्छां द्विगुणान्वितः(तम् ) । गण्डकः स्तरमेकं स्यात् ततः पट्टः स्तरद्वयम् ॥ ७५ ॥ अर्धेन पट्टिका कार्या तथैव गिरिपंत्रिका९ । सू(स्त )रत्रयं वरण्डी स्याच्छूरसेनेनरलङ्कृता ॥ ७६ ॥ स्तरमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् । पट्टिका भागमेकं च तत्समं गिरिपत्रिकां१० ॥ ७७ ॥ त्रिभागं शिखरं कुर्याच्छेदं मे(रु ? ) तु भागिकम् । एकं कण्ठं प्रकुर्वीत (११पंथिकां गिस्तरं ? ) विदुः ॥ ७८ ॥ १ द. भागैर्विं । मुद्रित पुस्तके तु 'भागैर्विभाजयेत्' इति पाठः । २ द. सू । ३ द. तां । ४ द. शं । ५ द. र्याः सुनां । ६ द. ग । ७ द. मा । ८ द. रां । ९ द. वर्तिका । १० द. वर्तिका । ११ मुद्रित पुस्तके 'रथिकां त्रिस्तरां' इति स्यात् ।