समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 566, कुल 726 में से
संदर्भ में पढ़ेंदिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०५ अतः परमथ ब्रूमो विमानं शुभलक्षणम् । चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥ ५५ ॥ को(णाः) पञ्चपदाः कार्या मध्ये च सलिलान्तरम् । कर्णिका सार्धभागेन भागार्धमुदकान्तरम् ॥ ५६ ॥ (१सालोपचद ?) विस्तीर्णा सार्धभागेन निर्गता । कोणस्य चार्धभागेन कर्णिकानिर्गमः स्मृतः ॥ ५७ ॥ गर्भश्चास्य विधातव्यो द्वादशांशकविस्तृतः । भित्तिश्चतुष्पदा कार्या दिक्षु सर्वासुव्यवस्थितां ॥ ५८ ॥ ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् । वेदीबन्धोऽशकाः पञ्च जङ्घा नवपदोच्छ्रिता ॥ ५९ ॥ प्रथमा भूमिका कार्या भागैः षड्भिः समुच्छ्रिता । शतपत्रां कपोतालीं मध्ये चास्याः प्रकल्पयेत् ॥ ६० ॥ द्वितीया भूमिका चास्य विधेया पञ्चभिः पदैः । अर्धेऽस्याः स्तम्भकोच्छात्रं कूटं चार्धव्यवस्थितम् ॥ ६१ ॥ (४परस्परपार्धेन हर्मा ?)स्तिस्रोऽन्यभूमिकाः । स्तम्भिकाकूटभरणशूरसेनाः सघण्टकाः ॥ ६२ ॥ कलशस्योदयश्चात्र प्राग्वत् कार्या विपश्चिता । य इमं कारयेद् भक्त्या विमानाख्यं नृपुङ्गवः ॥ ६३ ॥ इह भोगान् स लभते तथा (सत्कायदंविधे?) । अथ पद्माप्रियप्रीतिजननः पद्म उच्यते ॥ ६४ ॥ चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः । कोणाश्चतुष्पदाः कार्याः सलिलान्तरभूषिताः ॥ ६५ ॥ द्विपदः पञ्जरो ज्ञेयो गर्भे कोणाश्चतुष्पदाः । (८भागःस्यात् ?) षोडशांशेन तदन्ते सलिलान्तरम् ॥ ६६ ॥ १ मु. पु. 'शाला षट्पद' इति स्यान्; द. स। २ द. ताः । ३ द. तां । ४ मु. पुस्तके 'परस्परं पदार्धेन हीना' इति स्यात् । ५ द. ता । ६ द. नो । ७ द. त्रि । ८ द. भागस्य; मुद्रित पुस्तकेऽपि 'भागस्य' इत्येव पाठभेदः स्वीकृतः । वा. ६४