समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 574, कुल 726 में से
संदर्भ में पढ़ेंभूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१३ ते च(?) द्वादशभागा ये दशभिस्तान् विभाजयेत् । गर्भभित्तिं तथोत्सेधं जङ्घायाः प्रथमक्षितेः १॥ २८ ॥ वेदीबन्धस्य चोत्सेधं पूर्वमानेन कारयेत् । मध्यं पल्लविकान्तं तु शालयोर्दशभिर्भजेत् ॥ २९ ॥ क्षितेरारभ्य पूर्वस्याः स्कन्धं यावत् समुच्छ्रिता(तिः) । कार्या द्वादशभिर्भागैरनन्तरनिरूपितैः ॥ ३० ॥ सार्धैकोनविंशत्या भाजयेद् भूय एव ताम् । द्वितीयभूमिकोत्सेधस्तैर्भवत्यथ भागिकौ३(?) ॥ ३१ ॥ त्रिस्रोऽन्याः पदपादेन हीनाः कार्या यथाक्रमम् । भागेन वेदिकोत्सेधः शाला कार्या च नागरः (?) ॥ ३२ ॥ ऊर्ध्वमाद्यं(च)क्षितेः कार्या मालायाः४ शूरसेनकाः । कोणप्रतिरथा ये तु पञ्चभागसमुच्छ्रिताः ॥ ३३ ॥ स्तम्भोच्छालकमध्येन तेषु कूटोच्छ्रिता(ति)स्तथा । अर्धेन प्रविधातव्या भूष्वन्यास्वप्ययं विधिः ॥ ३४ ॥ स्कन्धविस्ताररेखा भूप्रवेश(शो) घण्टया सह । कलशः शुकनासस्य चोच्छ्रितिः पूर्ववद् भवेत् ॥ ३५ ॥ मलयाद्रिरयं प्रोक्तः प्रासादः शुभलक्षणः । य एनं कारयेत् तस्य तुष्यन्ति सकलाः सुराः ॥ ३६ ॥ वर्षकोटिसहस्राणि स्वर्गलोके महीयते । मलयाद्रिप्रासादः ॥ अथ माल्यवतो लक्ष्म यथावदभिधीयते ॥ ३७ ॥ भजेदर्धयुतैः पञ्चदशभिश्चतुर६++। कर्णौ द्विभागिकाः कार्याः शाला पञ्चांशविस्तृता ॥ ३८ ॥ कर्णाभ्यर्णैऽशयुगलं पादोनाः(नं) स्युः प्रतीरथाः । शालायाः पार्श्वयोः कार्यों पण्डा(ञ्ज)रौ सार्धभागिकौ ॥ ३९ ॥ १ द. ते । २ द. पूर्वस्यात्स्कंधया च । ३ द. कः । ४ द. यां । ५ द. ति । ६ द. स्रकं । वा. ६५