समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 590, कुल 726 में से
संदर्भ में पढ़ेंमण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । १२९ भागेनैकेन निष्क्रान्तं विस्तृतं (चतुश्वतान्१ ?) । मध्यभद्रं विधातव्यमाशासु चतसृष्वपि ॥ १२ ॥ पीठं प्रासादपीठस्य नात्र² कुर्वीत मण्डपे । (तलपट्टे भवेच्छोकनाशोयाक्षितिरङ्गिका ?) ॥ १३ ॥ तलपट्टमधस्तस्या मण्डपस्य निवेशयेत् । कर्तव्यमेवमग्रेऽग्रे निम्नं निम्नतरं ततः ॥ १४ ॥ अथवा तत्समं दद्यात् स्थपतिः शास्त्रवित्तमः । चतुर्भागायतद्वारं षड्द्वारुक(दारुक)समन्वितम् ॥ १५ ॥ अग्रभद्रं विधातव्यं चतुस्तम्भविभूषितम् । पृष्ठतश्च भवेदेवं संसृतिश्चैत्रमण्डपे⁴ ॥ १६ ॥ संसृतेः शुकनासो स्याद् भूमिर्ताः³( ?) पृष्ठभद्रकम् । शेषं तथैव कर्तव्यं विधानं मण्डपस्य तु ॥ १७ ॥ स भित्तिभिः परिक्षिप्तः कर्तव्यः पार्श्वयोर्द्वयोः । भागेन कल्पयेद् भित्तिं गवाक्षैरुपशोभिताम्⁵ ॥ १८ ॥ वातायनाश्च कर्तव्याः सह चन्द्रावलोकनैः । प्रासादद्वारवद् द्वारविस्तारो मण्डपे भवेत् ॥ १९ ॥ सपादः सत्रिभागो वा सार्धः (सौम्याथवा ?) भवेत् । ऊर्ध्वद्वारविधे(धिः) कार्यों मूलद्वारानतिक्रमात् ॥ २० ॥ जालव्यालकपोताली मत्तवारणकैर्युताः⁶ । भ्रमनिर्मापितैः स्तम्भैः कर्तव्याश्च गवाक्षकाः⁷ ॥ २१ ॥ वातायनं तदर्धेन पादोनं द्वा(चा)वलोकनम् । क्षणमध्ये प्रकुर्वीत चतुष्कीं¹⁰ विधिवच्छुभाम्¹¹ ॥ २२ ॥ क्षोभायौं बाह्यतो रेखा क्षात्या द्रुमं¹² च विवर्जयेत् (?) । दारुकर्मविधे(धि)र्मध्ये यथा स्यात् कथ्यते तथा ॥ २३ ॥ १ द. श्व । २ द. निम्नं । ३ द. र्भा । ४ द. ॰तश्चेत्र मंडपः । ५ द. शः । ६ द. ते । ७ द. तम् । ८ द. ता । ९ द. का । १० द. र्थीं । ११ द. भा । १२ द. र्ना । वा. ६७