समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 612, कुल 726 में से
संदर्भ में पढ़ेंशालाद्वयं विधातव्यं द्वादशी शत + भ्रमम् (?) । भागमेकं प्रवेशस्तु तयोः (कर्ण ?) द्वयोर्भवेत् ॥ ३१ ॥ तिस्रस्तिस्रो भवत्येवं शालादिक्(क्षु)ति(सृ)ष्वपि । षडेवोदकमार्गाश्च कार्या भागार्धनिस्स्रुताः ॥ ३२ ॥ भागमेकं प्रविष्टाश्च भवेयुर्दिक्त्रयेऽपि ते । कर्णौ च पुरतः कार्यों भागद्वितयसम्मितौ ॥ ३३ ॥ सशुण्डिका(?) विमानोऽयं सुरासुरनरार्चिता(तः) । शुण्डिकाग्रे यदेतस्यां शालाप्रासादसंमुखम् ॥ ३४ ॥ संस्तुता किन्नरैः सिद्धैस्तदा स्याद् अमरावलिः । वक्त्रशालाविहीना तु पार्श्वशालाद्वयान्विता ॥ ३५ ॥ तद्रूपा तत्प्रमाणा या स्वस्तिकी सा प्रकीर्तिता । प्रासादाभिमुखी शाला स्वस्तिक्यामेव चेद् भवेत् ॥ ३६ ॥ तदानीं हंसमालति विख्याता जगती भुवि । मुख्य(ख)स्य पार्श्वद्वितये भागं वार्यन्तरं यदा ॥ ३७॥ कृत्वा (प्रासादैर्यदग्रे ?) भद्रमानेन निर्गमम् । प्रासादसंमितं सूत्रं शालास्तु गलभूषिताः ॥ ३८ ॥ शुण्डिका तदवस्थे च मुखे स्याच्छालया विना । कुलशैला तदा ज्ञेया हंसमालागमांश्रया ॥ ३९ ॥ सदा महेश्वरस्येष्टा स्कन्दस्य तु विशेषतः । अस्या एव यदा शाला पुरोभद्रे विधीयते ॥ ४० ॥ तदा महीधरी प्रोक्ता महीधरमनःप्रिया । चतुरश्रीकृते क्षेत्रे साष्टाविंशतिभाजिते ॥ ४१ ॥ चतुःषष्टिपदं मध्ये कुर्याद् देवालयं बुधः । चतुष्पदो भ्रमः कार्यों देवागारस्य सर्वतः ॥ ४२ ॥
१ द. द्वादशांशकृतभ्रमं । २ द. मु । ३ द. मु । ४ द. द्वि । ५ द. मुद्रित पुस्तके 'हरमाले'ति लक्ष्ये पश्यते; द. इसमालेति । ६ द. °येऽग्रे । ७ द. त । ८ द. °स्थैव । ९ मुद्रित पाठस्तु 'कुलशीले 'ति पूर्वं पठितः। द. कुलशैला । १० द. में । ११ द. री ।