समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 639, कुल 726 में से
संदर्भ में पढ़ें१७८ समराङ्गणसूत्रधारे कर्मसूच्चाटनाद्येषु विनियोज्या जिगीषुभिः । याक्षी त्रिमेखला वृत्ता वित्ताप्त्यै¹ धनदार्चिते(ता) ॥ ११७ ॥ (गणाद्द्रिमेखलाषट्श्रितः³ ? ) । कुर्वीतैकेन खुरकं चतुर्भिर्जाड्यकुम्भकम् ॥ ११८ ॥ (द्वाभ्यामङ्गं तथैकेन प्रवेशोऽत्र जाड्यकुम्भस्य शस्यते । अञ्जूयस्य चतुर्भिस्तैः कर्णिकाया द्वये नराः ? ) ॥ ११९ ॥ एकेन कण्ठकस्या(श्चा)तो निर्यात्येकेन कर्णिका । (⁴विभागैरं पुंजं ? ) षड्भिस्ततश्चैकेन मेखलाः ॥ १२० ॥ पद्मेय पीठिका ख्याता सर्वकामप्रदायिनी । क्षेत्रे षोडशधा भक्ते भागेन खुरको भवेत् ॥ १२१ ॥ चतुर्भि(र्जशंतां ) कुम्भस्त्रिभिरेकेन कर्णिका । त्रिभिः ⁶कण्ठश्चतुर्भिश्च पूर्ववन्निर्गमो भवेत् ॥ १२२ ॥ इमं(यं) + व्यक्तलिङ्गेषु पीठिका स्यात् पयोधरा । (एवंविधैव चापीठ स्यात्किमुच्यक्तो⁹ ? ) लक्षणे ॥ १२३ ॥ भक्ते द्वादशभिः पीठमानं द्विभागिको भवेत्(?) । जगतीति(तु) त्रिभिः (कुंसे¹⁰ ? ) द्वाभ्यामेकेन वेदिका ॥ १२४ ॥ कण्ठो द्वाभ्यामथैकेन वेदिका पुनरुत्तरा । ¹¹ऐकेकेन तु भागेन ततः स्यात् पीठिकोद्वयम्¹² ॥ १२५ ॥ एवं षडश्रा कर्तव्या वज्राक्षा पीठिका बुधैः¹³ । (पीठिका क्षेत्रेण निर्मत्तैषो¹⁴ ? ) भागेन खुरको भवेत् ॥ १२६ ॥ द्वाभ्यां जङ्घार्थे¹⁵ भागेन वेदी द्वाभ्यां तु कण्ठर्थं¹⁶(कः) । (उ¹⁷भैयाभ्यां निर्गमः सा ¹⁸क्षीच्छि ? ) चन्द्रकला भवेत् ॥ १२७ ॥ १ द. प्त्यौ । २ द. मे । ३ द. ता । ४ मुद्रित पाठस्तु 'विभागैरम्बुजं' इति स्यात् । ५ द. यु । ६ मुद्रित पुस्तके 'जगती' इति स्यात् । द. °गं° । ७ द. ण्ठा । ८ द. ठि । ९ द. °क्तोक्त । १० द. कुंसे । मुद्रित पुस्तके 'कुम्भो' इति स्यात् । ११ द. एकेनैव । १२ द. पट्टिका द्वयं । १३ द. बुधैः । १४ द. के । १५ द. य । १६ द. यः । १७ द. भाभ्यां । १८ द. क्षीरित्थं ।