समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 642, कुल 726 में से
संदर्भ में पढ़ेंलिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५८१ पीठात्(ठं) त(त्)त्रितयेनार्चामुप(रि ?)विष्टां प्रकल्पयेत् । द्वारस्यार्धं ^२त्रिधा कृत्वा द्वाभ्यां पीठं विधीयते ॥ १५० ॥ (चाक्लृप्तिरुक्तवतैयद्वा ?) द्वेधा चतुर्धा वा द्वारं कृत्वैकमत्सृजेत् । शेषं भागत्रयं कृत्वा पीठमर्चां च पूर्ववत् ॥ १५१ ॥ द्वारोच्छ्रितेः पञ्चदशभागं (कृ ?) त्यक्त्वा विधीयते । भागत्रयं तदेकेन पीठमर्चां तु (तद्)द्वयात् ॥ १५२ ॥ भागान् पञ्च विधीयेत यदि वा भागयुग्मतः । पीठं^४(तत्)त्रितयेनार्चामुपविष्टां प्रकल्पयेत् ॥ १५३ ॥ द्वारस्यार्धं त्रिधा कृत्वा द्वाभ्यां पीठं विधीयते । भागेनार्चा( शयानागार्धे^५ऽर्चा ? ) वेश्मानुसारतः ॥ १५४ ॥ भक्ते प्रासादगर्भाद्धे(र्धे ) दशधा पृष्ठभागतः । पिशाचरक्षोदनुजाः स्थाप्या गन्धर्वगुह्यकाः ॥ १५५ ॥ (आदित्यचन्द्रिकाविष्णुब्रह्मेशानन्ता ? ) पदक्रमात् । गर्भे षड्भागभक्ते वा त्यक्त्वैकं (^७पृथता शतं^८? ) । स्थापनं सर्वदेवानां पञ्चमेशो (मैंडशे ) प्रशस्यते । ॥ १५६ ॥ यदङ्गप्रत्यङ्गप्रहरणगतं लक्ष्म विततं तदर्थानां (चित्रकनावधो वाच्यमक्ष्य ? ) । सपीठार्था(र्चा )लिङ्गोन्मिति(मपि ) विदित्वा वडु(हु )मतो भवेद् भूपालानां कृतिभिरपि पूज्येत सकलैः ॥ १५७ ॥ ^१०इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः !| १ द. ठा तन् । २ द. द्वि । ३ द. त् । ४ द. पीठं कृत येनार्चा° । ५ द. द्वैर्य्यं । ६ द. जः ज्ञः । ७ मुद्रित पुस्तके ‘पृथगंशकम्’ इति स्यात् । ८ द. नं । ९ द. मंशो । १० द. ‘परमेश्वर श्रीभोजदेव’ इत्ययं पाठः ।