संस्कार विधि (महर्षि दयानन्द सरस्वती - षोडश वैदिक संस्कार एवं गुरुकुल विधान सटीक)
Sanskar Vidhi of Maharshi Dayananda Saraswati
महर्षि स्वामी दयानन्द सरस्वती द्वारा
पृष्ठ 29, कुल 318 में से
संदर्भ में पढ़ें[Heading Left] सामान्यप्रकरणम् [Heading Right] २५
अथ पात्रलक्षणान्युच्यन्ते—बाहुमात्र्यः पाणिमात्रपुष्कराः, षडङ्गुलखातास्त्वग्बिला हंसमुखप्रसेकाः, मूलदण्डाश्चतस्रः स्रुचो भवन्ति। तत्र पालाशी जुहूः, आश्वत्थ्युपभृत्, वैकङ्कती ध्रुवा, अग्निहोत्रहवणी च। अरत्निमात्रः खादिरः स्रुवः, अंगुष्ठपर्वमात्रपुष्करः, तथाविधो द्वितीयो वैकङ्कतः स्रुवः। वारणं बाहुमात्रं मकराकारम्, अग्निहोत्रहवणीनिधानार्थं कूर्चम्। अरत्निमात्रं खादिरं खड्गाकृतिवज्रम्। वारणान्यहोमसंयुक्तानि—तत्रोलूखलं नाभिमात्रम्। मुसलं शिरोमात्रम्। अथवा मुसलोलूखले वार्क्षे सारदारुमये शुभे इच्छाप्रमाणे भवतः। तथा— खादिरं मुसलं कार्यं पालाशः स्यादुलूखलः। यद्वोभौ वारणौ कार्यों तदभावेऽन्यवृक्षजौ॥ शूर्पं वैणवमेव वा ऐषीकं नलमयं वाऽचर्मबद्धम्। प्रादेशमात्री वारणी शम्या। कृष्णाजिनमखण्डम्। दृषदुपले अश्ममये। वारणीं २४ हस्तमात्रीं, २२ अरत्निमात्रीं वा खातमध्यां मध्यसंग्रहीतामिडापात्रीम्। अरत्निमात्राणि ब्रह्मयजमानहोतृपत्न्यासनानि। मुञ्जमयं त्रिवृतं व्याममात्रं योक्त्रम्। प्रादेशदीर्घे अष्टाङ्गुलायते षडङ्गुलखातमण्डलमध्ये पुरोडाशपात्र्यौ। प्रादेशमात्रं द्व्यङ्गुलपरीणाहं तीक्ष्णाग्रं शृतावदानम्। आदर्शाकारे चतुरस्रे वा प्राशित्रहरणे। तयोरेकमीषत्खात- मध्यम्। षडङ्गुलं कङ्कतिकाकारमुभयतःखातं षड्वत्तम्।