सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)
Sarva-Darshana-Sangraha with Hindi Commentary
माधवाचार्य (विद्यारण्य स्वामी) / पं. उमाशंकर शर्मा ऋषि द्वारा
पृष्ठ 151, कुल 316 में से
संदर्भ में पढ़ें( १४२ ) सर्वदर्शनसङ्ग्रहः । [ पूर्णप्रज्ञ- प्रमाण नहीं अतएव कूर्मपुराणम कहा हे कि, श्रुतिके सहायताके विना केवल अनुमान कही भी वास्तविक अर्थका साधक नहीं हे श्रुतिके सहित प्रमाणान्तर उत्तम प्रमाण पदवीको प्राप्त होता है इसमें सन्देह नहीं है ॥ ४१ ॥ शास्त्रस्वरूपमुक्तं स्कान्दे-“ऋग्यजुः सामाथर्वाश्च भारतं पाञ्च- रात्रकम् । मूलरामायणञ्चैव शास्त्रमित्यभिधीयते ॥ यच्चानुकू- लने तस्य तच्च शास्त्रं प्रकीर्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥ ” इति ॥ ४२ ॥ शास्त्रका स्वरूप स्कन्दपुराणमें कहा हे ऋक्, यजु, साम, अथर्व, भारत, पाञ्चरात्र, और मूलरामायण यही शास्त्र है इससे अन्य ग्रन्थ प्रपञ्च और कुमार्ग है शास्त्र नहीं ॥ ४२ ॥ तदनेनानन्यलभ्यः शास्त्रार्थ इति न्यायेन भेदस्य प्राप्तत्वेन तत्र न तात्पर्यं किन्त्वद्वैत एव वेदवाक्यानां तात्पर्यमिति अद्वैत- प्रत्याशा प्रतिक्षिप्ता । अनुमानादीश्वरस्य सिद्धाभावेन तद्भेद- स्यापि ततः सिद्ध्यभावात् । तस्मान्न भेदानुवादकत्वमिति- तत्परत्वमवगम्यते । अतएवोक्तम्-सदागमैकविज्ञेयं समतीत- क्षराक्षरम् । नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम्॥’ इति॥४३॥ अतः प्रमाणान्तरसे जो लभ्य नहीं हो वही शब्दका अर्थ हे भेद प्रत्यक्ष सिद्ध होनेसे भेदके बोधनमें वेदका तात्पर्य नहीं हो सकता किन्तु अप्राप्त अद्वैतमे वेदान्त वाक्योंका तात्पर्य है इत्यादि अद्वैतसाधनयुक्ति भी निरस्त होगई । अनुमानद्वारा ईश्वरसिद्धि न होनेसे ईश्वरके साथ अभेदभी अनुमान साध्य नहीं हो सकता अतएव शास्त्रैकगम्य बद्ध मुक्त पुरुषोंसे पर, हेयगुणरहित, कल्याणगुणालय हरिकी वन्दना करता हू इत्यादि अभियुक्तोक्ति सङ्गत होती है ॥ ४३ ॥ शास्त्रस्य तत्र प्रामाण्यमुपपादितं ‘तत्तु समन्वयात्’ इति । सम- न्वय उपक्रमादिलिङ्गम् । उक्तं बृहत्संहितायाम्--“उपक्रमोपसं- हाराभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनि- र्णय ॥”इति । एवं वेदान्ततात्पर्यवशात् तदेव ब्रह्म शास्त्रगम्य- मित्युकतं भवति । दिङ्मात्रमत्र प्रादर्शि शिष्टमानन्दतीर्थभाष्य