भारतकोश
सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)

सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)

Sarva-Darshana-Sangraha with Hindi Commentary

माधवाचार्य (विद्यारण्य स्वामी) / पं. उमाशंकर शर्मा ऋषि द्वारा

DevanagariHindipublished316 पृष्ठ

पृष्ठ 271, कुल 316 में से

संदर्भ में पढ़ें
पृष्ठ 271

( २६४ ) सर्वदर्शनसंग्रहः । [ सांख्य- यस्तु परमेश्वरः करुणया प्रवर्तक इति परमेश्वरास्तित्ववादिनां डिण्डिमः स प्रायेण गतः विकल्पानुपपत्तेः । स किं सृष्टेः प्राक् प्रवर्त्तते सृष्ट्युत्तरकाले वा । आद्ये शरीराद्यभावेन दुःखानु- त्पत्तौ जीवानां दुःखप्रहेणेच्छानुपपत्तिः । द्वितीये परस्पराश्रय- प्रसंगः करुणया सृष्टिः सृष्ट्या च कारुण्यमिति ॥ तस्माद- चेतनस्यापि चेतनानाधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामः पुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः ॥ १५ ॥ परमेश्वर करुणासे प्रवर्तक है यह जो ईश्वरास्तित्ववादियोंका उद्घोष है । वहभी वक्ष्यमाण विकल्पानुपपत्तिसे परास्त है । तथाहि ईश्वर सृष्टिके पूर्व प्रवृत्त होते हैं या उत्तर कालमें प्रवृत्त होते हैं ? प्रथम पक्षमें शरीरेन्द्रियादि न होनेके कारण जीवको दुःखोत्पत्ति न होनेसे दुःखनाशकी इच्छाही अनुपपन्न है । द्वितीयपक्षमें करुणासे सृष्टि, सृष्टिसे करुणा इस प्रकार अन्योन्याश्रय होगा । अतः चेतनानाधिष्ठित अचेतन प्रधानकोभी प्रधा- नपुरुषसंयोगनिमित्त पुरुषार्थके लिये महदादिरूपस परिणाम मानना होगा ॥ १५ ॥ यथा निर्व्यापारस्याप्ययस्कान्तस्य सन्निधानेन लोहस्य व्यापारः तथा निर्व्यापारस्य पुरुषस्य सन्निधानेन प्रधानव्या- पारो युज्यते । प्रकृतिपुरुषसम्बन्धश्च पङ्ग्वन्धवत्परस्परापेक्षा- निबन्धनः ॥ प्रकृतिर्हि भोग्यतया भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि भेदाग्रहाद्बुद्धिच्छायापत्त्या तद्गतं दुःखत्रयं वारय- माणः कैवल्यमपेक्षते । तत् प्रकृतिपुरुषविवेकानिबन्धनं न च तदन्तरेण युक्तमिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । यथा खलु कौचित् पंग्वन्धौ पथि सार्थेन गच्छन्तौ दैवकृता- दुपप्लवात् परित्यक्तसाथौ मन्दमन्दमितस्ततः परिश्रमन्ता भयाकुलौ दैववशात् संयोगमुपगच्छेतां तत्र चान्धेन पंगुः स्कन्धमारोपितः ततः पगुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राप्नोति । पंगुरपि स्कन्धाधिरूढः तथा परस्परापेक्ष- प्रधानपुरुषनिबन्धनः सर्गः ॥ यथोक्तम्--“पुरुषस्य दर्शनार्थं