सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 149, कुल 837 में से
संदर्भ में पढ़ें९० सात्वतसंहिता सितासितौ चामरौ तु मात्रावित्तमनन्तरम्। औपचारिकभोगानामेतेषां पूरणाय च ॥ ६१ ॥ भेरीमृदङ्गशङ्खाद्यैर्जयशब्दसमन्वितैः । गीतकैर्विविधैर्नृत्यैस्तन्त्रीवाद्यसमन्वितैः ॥ ६२ ॥ स्तोत्रमन्त्रैर्नमस्कारैः प्रणामैः सप्रदक्षिणैः । अलङ्कारासने समर्पणीयान्युपचारानाह— ‘समभ्यर्च्यार्घ्यपाद्येन’ इत्यारभ्य ‘प्रणामैः स-प्रदक्षिणैः पूज्यः’ इत्यन्तम्। चन्दनादिनेत्यादिशब्देन कुङ्कुमादिकं गृह्यते। तथा च पारमेश्वरे—‘घृष्टकुङ्कुमकस्तूरीमृगस्नेहावलेपनम्’ (६।३४७) इति । बीजनं च आर्द्रगन्धशোষণार्थं ज्ञेयम्। तथा च लक्ष्मीतन्त्रे—‘चन्दनाद्याः सुगन्धाश्च वीजनं शोषणार्थकम्’ (ल० ३९।२०) इति। केशप्रसादकृत कूर्चं कङ्कतमित्यर्थः। तथा च लक्ष्मीतन्त्रे—‘विवेचनं च केशानां कङ्कतेन प्रशोधनम्’ (ल० ३९।१९) इति। पुष्पताम्बूलकर्तरीम्। मुक्तपुष्पसमन्वितम्, मुक्तैः अग्रथितैः पुष्पैः सहितमित्यर्थः। पुष्पाञ्जलिसमर्पणसहितमिति यावत्। तथा च पारमेश्वरे—‘मुक्तपुष्पं ततो दद्याद् यथाकालसमुद्भवम्’ (६।३४८) इति। लक्ष्मीतन्त्रेऽपि— मकुटाद्या अलङ्काराः प्रदेयाः परमात्मनः। स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः॥ पुष्पाञ्जलिः पदद्वन्दे प्राकारसुमनश्चयैः। —(३९।२१-२२) इति। प्रतिसरं = पवित्रमित्यर्थः। धातुभिः गैरिकादिभिः, कुङ्कुमादिभिः कुङ्कुमह- रिद्रागोरोचनादिभिरित्यर्थः। तथा चेश्वरपारमेश्वरयोः— निशारोचनया वापि पवित्राणां च धातुना॥ केनचिद् ग्रन्थयो विप्रा विधिवत् परिरञ्जयेद्। —(ई०सं० १४।२६७-२६८; पा०सं० १२।५००-५०१) मृदु तूलेनेति हेमरत्नाद्युपलक्षकम्। यतो हेमरत्नादिभिरपि गर्भपूरणमुप- बृंहितमीश्वरादिषु। मुखवासं मुखं वास्यतेऽनेनेति मुखवासः। कर्पूरमित्यर्थः। रोचनं गोरोचनसहितम्। प्राकारं चित्रकुसुमैः रत्नप्रभोज्ज्वलं रत्नसदृशनिजप्रभाभासुर- मित्यर्थः। अत्र विशेषणान्तराण्यप्युक्तानीश्वरादिषु ग्राह्याणि— प्रभूतैस्तु महाज्वालैस्तैलतैलाज्यपूरितैः॥ अभुक्ताहतसुश्वेतरचितैर्वर्तिवेष्टितैः । ग्रन्थीकृतत्वगेलाद्यैः पूजयेत् तदनन्तरम् ॥ —(४।१८३-१८४) इति। मृष्टधूपसमायुक्तं = कृतधूपेनागर्वाद्विना वा विमिश्रितमित्यर्थः। कर्पूरमेलनम- प्युक्तमीश्वरादिषु—‘कर्पूरचूर्णसंमिश्रं सुगन्धि मधुरं बहु (४।१८५) इति। अत्राज्य- मिश्रणमपि कार्यम्, ‘धूपार्थं गुग्गुलुः साज्यो देयश्चाभवतोऽपरः’ (२१।३५) इति