सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 16, कुल 837 में से
संदर्भ में पढ़ेंप्राक्कथनम् १३ (ग) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ —१.२२.२० ब्राह्मणग्रन्थेषु विष्णोः पर्याप्तं वर्णनं लभ्यते । वेदवर्णितविष्णुशक्तिरुत्तरोत्तरं विकासोन्मुखोऽपि ब्राह्मणग्रन्थेषु वर्णितः । शतपथब्राह्मणे यज्ञनिष्ठादृष्ट्या विष्णुग्रणीः प्रमाणितः, तथा विष्णोर्लौकिकीनां चमत्कारपूर्णानां कथानामपि बहुशश्चर्चाः कृताः । उपनिषत्साहित्ये विष्णोः परं धामैव सर्वोत्तमं स्थानं प्रमाणप्रतिपन्नमिति स्वीकृत्य जगतः परिकल्पितः । यथा— विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ —कठोपनिषत्, ३-९ विष्णुर्यस्मिन् रूपे वैदिकसंहितासु वर्णितस्तदेव रूपमधिकं व्यापकं तथा भास्वरं दृश्यते । वेदे यानि विशेषणानि पूर्वमिन्द्राय प्रयुज्यन्ते स्म, तान्यधुना विष्णु- प्रशंसायां प्रयुक्ता बभूवन् । यथा—हरिः, केशवः, वासुदेवः, वृष्णीपतिः, वृष्णः, ऋषभ इत्यादयः शब्दाः पूर्वमिन्द्राय प्रयुक्ता भवन्ति स्म, आहोस्वित् तत्सम्बद्ध- पदार्थप्रतीतिप्रतिपादका आसन्; त एव कालक्रमेण विष्णोर्विविधोपाधीनां तथा नाम्नामाधारा अजायन्त । विष्णुमाहात्म्याभिव्यञ्जका व्युत्पत्तिलभ्यार्था अपि प्रसङ्गतो- ऽपेक्षिताः । यथा—यास्काचार्यविरचितनिरुक्त (१२.१९) एवं प्रतिपादितम्—'अथ यद् विषितो भवति, तद् विष्णुर्भवति । विष्णुर्विशतेर्वा व्यश्नोतेर्वा' इति । भगवता दुर्गाचार्येण (निरुक्तभाष्ये २.३.३)—'यदा रश्मिभिरतिशयेनायं व्याप्तो व्याप्तो व्याप्नोति वा रश्मिरथं सर्वम् । तद्विष्णुरादित्यो भवति' इत्येवं विष्णुशब्दस्य निर्वचनमकारि । वेवेष्टि व्याप्नोति चराचरं जगत् स विष्णुरित्यनया व्युत्पत्त्याऽपि विष्णोर्विशिष्टं माहात्म्यमभिव्यज्यते । विष्णोरुपर्युक्तं स्वरूपं तथा व्यक्तित्वं मनोहार्यनुरञ्जकं तथा व्यापकं विधाय ग्राह्यं कर्तुं स नराकाराकारितरूपे विमर्शितः (दृष्टः) । एवं विष्णुरेव नारायण- शब्देनाभिहितः । नारायण शब्दोऽपि वैष्णवे धर्मे उपास्यरूपेण स्वीकृतः । यथाह मनुस्मृतौ— आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ इति कथनेन क्षीरशायिविष्णुना नारायणशब्दसाम्यं प्रदर्शितम् । महाभारतेऽपि विष्णु नारायणरूपेण वर्णितः । अनेन प्रकारेण विष्णुभक्तेः प्राचीनता, विष्णुशब्दस्य नारायणशब्दसमानार्थता च द्योत्यते । भागवत (= सात्त्वत) सम्प्रदायस्य कालविमर्शः वैष्णवधर्मस्य सर्वप्राचीनं नाम भागवतधर्म आसीत् । भागवतशब्दः पाञ्च-