सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 182, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः १२३ ननु भवदुदाहृतरहस्याम्नायवाक्येष्वेव भगवन्निवेदितान्नस्य कारिभ्यः प्रदानम्, तेनैवान्नेन कारिभिः स्वार्थभगवद्यजनं कार्यमित्युक्तं खलु, तत्पुनः कथमप्रकृतमिति चेत्, अनभिप्रायज्ञोऽसि । तस्मिन्नर्थे को वा विवादः । तथा कारिप्राप्तान्नेन भगवद्यजनं सर्वसंमतम् । किन्तु विनिवेद्य च देवायेत्यत्र तादृशार्थो वर्णितुं न शक्यते । यत एतद्वाक्यं नहि कारिणां कर्मानुष्ठाननिरूपकम्, अपि तु भगवन्तमिष्टवतः कारिप्रदानं कृतवतोऽनुयागं कुर्वतस्तत्प्रकारनिरूपकमिति बोध्यम् । ननु परार्थमिष्टवता स्वार्थे भगवान् परित्याज्यः किमिति चेत्, ब्रूमः—परिग्राह्य एव पत्रादिभिः पूजनीयः, स्वेन साष्टाङ्गप्रणामादिना सेव्यश्च । किन्त्वस्यापि साष्टाङ्ग- यजनं कर्तुं स्वस्यानवकाश इति ज्ञेयम् । अत एव पारमेश्वरादिषु द्वादशकालार्चनं कुर्वतः कालत्रयेऽप्याह्निकमात्रस्यावकाश उक्तः, न तु स्वार्थाराधनस्य प्रत्येकं कालः प्रदर्शितः । न च द्वादशकालार्चनं कुर्वतः स्वार्थार्चनावकाशो माऽस्तु, त्रिकालाद्यार्चनं कुर्वतः स्वार्थार्चने को विरोध इति वाच्यम्, तदानीमपि स्वार्थार्चनकालस्यानुक्तत्वमेव विरोधः । ननु— प्रातर्मध्यन्दिनं सायं त्रयः कालाः प्रकीर्तिताः । तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ इति स्वार्थाविरोधेन परार्थाधिकृतस्य च । एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ॥ तथैव दीक्षितस्यापि सिद्धान्तरतचेतसः । —(पा०सं० ९।३६, १५२-१५३) इति पारमेश्वरोक्तः किं न श्रुत इति चेत्, ब्रूमः—तत्र स्वस्य कर्मण इत्यनेन स्वा- र्थाविरोधेनेत्यत्र स्वार्थशब्देन च स्नानादिनित्यकर्माण्येवोच्यन्ते, न स्वार्थाराधनमपि । यतस्तत्परार्थयजनवद् बह्वीभिर्घटिकाभिः कर्तृन्तरेणैव साध्यम् । (नास्ति? अस्ति) च स्वार्थपरार्थयोरुभयोरप्येकेनैवाराधनं कार्यमिति पूर्वं भवदुक्तं खलु । तत्र किं नियामकमिति, अनुपपत्तिरेव नियामिका । ननु तदानीं बहुघटिकासाध्यं स्वार्थार्चनं कथं शीघ्रं साध्यत इति चेदुच्यते— उत्सवावधिकं श्रेष्ठमाराधनमुदाहृतम् । होमान्तं मध्यमं प्रोक्तं प्रापणान्तमथाधमम् । क्षुद्रं तु धूपदीपान्तमिदमाराधनं हरेः । इति पाद्मोक्तेः, संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः ॥ नैव कुर्यादपच्छेदं यजेदञ्जलिनापि माम् ।—(४०।१०४-१०५) इति लक्ष्मीतन्त्रोक्तेश्च लघुपक्षः साध्यत इति बोध्यम् । तथा चोक्तं पाञ्चरात्र- रक्षायां तृतीयेऽधिकारे—‘ईषच्छक्तौ संकुचितपूजनम्, एकोपचारमारभ्य तत्तच्छक्त्या- द्यनुसारेण सहस्रोपचारान्तविधानात्’ (पृ० १६८) इति । ‘यत्पुनरुपचारलोपे प्रत्य- वायादिकमुक्तम्— गन्धहीने भयोक्तिश्च पुष्पहीने तु संकुलम् ।