सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 185, कुल 837 में से
संदर्भ में पढ़ें१२६ सात्वतसंहिता नन्वत्र समयपरिच्छेदे— प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ॥ अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् । दूरात् प्रदक्षिणं कुर्यान्निकटात् प्रतिमां विभोः ॥ दण्डवत् प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् । (२१।११-१३) इति बहुवचनमपि वक्ष्यति । तस्य का गतिरिति चेत्, सत्यम् । तत्र चतुर्दिशमिति स्थानभेदोऽप्यस्तीति ज्ञेयम् । ननु च—'एकत्रिपञ्चसप्तादिगणनाविषमं हि यत्' (३७।५३) इति विषम- प्रणामनिषेधकपौष्करोक्तिः, तदनुसारिणी—'तत्र प्रदक्षिणानि प्रणामांश्च युग्मान् कुर्यात्' (पृ० ११४) इति पाञ्चरात्ररक्षोक्तिश्च भवता न श्रुता किमिति चेत्, उच्यते— पौष्करनिष्ठानामेव तदुक्तानुष्ठानम्, सात्वतनिष्ठानां तु सकृदेव प्रणामानुष्ठानं बोध्यम्, 'सकृत्ते नमः, द्विस्ते नमः' इत्यादिभिः पक्षद्वयस्यापि श्रुत्युक्तत्वात्, तथैव शिष्टाचारा- च्च । आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणमित्यत्र पाञ्चरात्ररक्षायाम्—'तदिह भगवत्प्रीणनस्वचित्तरञ्जकेतिहासपुराणस्तोत्रनिगमान्तद्वयव्यापकमन्त्रादीनां श्रवणमनन- प्रवचनजपादयो वादसंवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमानाः, पारुष्यमनृतं चैव पैशुन्यं चैव सर्वतः । अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ —(मनु० १२।६) इत्यादिदर्शितवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथासंभवं संभूय पृथग्भूय वा स्वाध्यायीभवन्ति' (पृ० १४९) । इति संगृहीतं द्रष्टव्यम् ॥ १८७-१८९ ॥ तदनन्तर आचमन कर संयमपूर्वक भगवान् के मन्दिर में पुनः जावे । फिर मन, बुद्धि, अभिमान के साथ कछुये के समान चारों हाथ, पैर और पाँचवाँ शिर पृथ्वी पर स्थापित कर साष्टाङ्ग सर्वदा प्रदक्षिणा करे ॥ १८७-१८८ ॥ इस प्रकार साष्टाङ्ग नमस्कार कर भगवान् के आगे बैठकर आगम (मन्त्र) शास्त्र का स्वाध्याय करे और उसके अर्थों पर विचार करे ॥ १८९ ॥ प्राप्ते तु सन्ध्यासमये स्नात्वा च जघनावधि । क्षालयित्वा ततः कुर्याद् वासःसम्परिवर्तनम् ॥ १९० ॥ अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्निं यजेत् ततः । यथाशक्ति जपं कुर्यादासाद्य शयनं ततः ॥ १९१ ॥ समाधाय बहिर्देवं निरालम्बपदे स्थितम् । अप्रयत्नेन वै तावदनिरुद्धेन तेजसा ॥ १९२ ॥ सह तेनैव वै निद्रा यावदभ्येति साम्प्रतम् । समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ॥ १९३ ॥ अथ सायन्तनस्नानादिनिद्रान्तं कर्तव्यकर्मणां क्रमं संक्षेपेणाह—प्राप्त इति सार्धैस्त्रिभिः । अत्र स्नात्वेत्यादिना सन्ध्योपासनादिकमुपलक्ष्यते । देवमर्चयित्वेत्यत्रा-