भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 427, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 427

३६८ सात्वतसंहिता नास्याः कुर्याः परित्यागं कर्मणा मनसा गिरा । सध्यं विना न कुर्याद् वै स्नानादीनां च लोपनम् ॥ १२५ ॥ यावज्जीवं यथाशक्तिः संस्थितो यत्र कुत्रचित् । स्थानेषु हृदयाद्येषु कुर्यान्मन्त्रगणार्चनम् ॥ १२६ ॥ द्रव्यैः पुष्षाम्बुपूर्वैस्तु तदभावे तु वै हृदि । मानसीं पूर्ववत् पूजां निर्वपेन्न्यासपूर्विकाम् ॥ १२७ ॥ मन्त्रनाथं गुरुं मन्त्रं समत्वेनाभिवीक्षयेत् । मन्त्रमण्डलमुद्राणां परां गुप्तिं समाचरेत् ॥ १२८ ॥ दूरादेव नमस्कार्यो मृगराड् व्याघ्र एव वा । तदाकृतिमृगोऽन्यो वा तच्चर्म क्वापि नारुहेत् ॥ १२९ ॥ न चाक्रमेत पादेन न च तल्पादिकं स्पृशेत् । पद्मपत्रैस्तथाश्वत्थपर्णैर्भोजनभाजनम् ॥ १३० ॥ वर्जनीयं तथा शङ्खपद्माद्याङ्कितमासनम् । नक्तं वा परिपीडं वाऽप्येकादश्यां समाचरेत् ॥ १३१ ॥ विशेषपूजनं कुर्याद् द्वादशीष्वखिलासु च । अयनादिषु चान्येषु सूर्यसंक्रमणे षु च ॥ १३२ ॥ न भूतग्रहदुष्टानां व्याधीनां वा कदाचन । असिद्धेन स्वमन्त्रेण कुर्यादुत्सारणं तु वै ॥ १३३ ॥ मन्त्रजं सिद्धिलिङ्गं यत् स्वप्ने प्रत्यक्षतोऽपि वा । अनुभूतं न वक्तव्यं कस्यचिद् गुरुणा विना ॥ १३४ ॥ व्यक्तं नृसिंहबीजं तु दृश्यते यत्र कुत्रचित् । नमस्कुर्यात् समभ्यर्च्य वाक्पुष्पैः सप्रदक्षिणैः ॥ १३५ ॥ कृत्वाऽश्रुपातं शोकं वा विप्रयोगनिमित्ततः । स्नानादृते न कुर्याद् वै देवाग्निपितृतर्पणम् ॥ १३६ ॥ आ नाभिवर्धनात् कालादन्यत्र सति सङ्करे । सूतकाख्ये न कर्तव्यं प्रागुक्तं चैव यत्नतः ॥ १३७ ॥ स्वानुष्ठानं हि वै यस्मादागमात् समुपागतम् । तस्य सम्पूजनं यत्नाद् गोपनं च समाचरेत् ॥ १३८ ॥ ब्राह्मणादीन् यथाशक्ति दीनानाथांश्च पालयेत् । एवं हि समयान् दद्याद् भक्तानां भावितात्मनाम् ॥ १३९ ॥ सम्पालनाच्च येषां वै प्राप्नुयान्मन्त्रजं फलम् ।