सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 601, कुल 837 में से
संदर्भ में पढ़ेंचतुर्विंशः परिच्छेदः प्रतिमापीठप्रासादलक्षणम् श्रीनारद उवाच विप्रप्रधानाः श्रुत्वैवं मन्त्राणां लक्षणं स्फुटम्। चोदयामास भगवान् पुनः स तालकेतुना ॥ १ ॥ अथ चतुर्विंशतिपरिच्छेदो व्याख्यास्यते । इह पुनः सङ्कर्षणेन वासुदेवश्चोदित इत्याह—विप्रेति । अत्र दिव्यत्वादात्मनेपदस्थाने परस्मैपदं प्रयुक्तम् । यद्वा स ताल- केतुनेति प्रथमैकवचनम् । स तालकेतुर्ना पुरुषः सङ्कर्षण इति यावत् ॥ १ ॥ श्री नारद जी ने कहा—हे ब्राह्मणो ! श्री सङ्कर्षण जी ने मन्त्रों के इस प्रकार के लक्षण को सुनकर पुनः श्री भगवान् से कहा ॥ १ ॥ सङ्कर्षण उवाच ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भगवन्मयः । नित्याराधनकामस्तु यदि मन्त्रमयं वपुः ॥ २ ॥ कर्तुमिच्छति लक्ष्यार्थं तत्र किंलक्षणो विधिः । चोदनाप्रकारमाह—ब्राह्मण इति सार्धेन ॥ २-३ ॥ सङ्कर्षण ने कहा—ब्राह्मण, क्षत्रिय, वैश्य, शूद्र अथवा भगवान् का भक्त यदि नित्य आराधना की कामना से मन्त्रमय शरीर बनाना चाहे, तो उस लक्ष्य की प्राप्ति के लिये उसे किस विधान का पालन करना चाहिये ॥ २-३ ॥ श्रीभगवानुवाच चित्रमृत्काष्ठशैलोत्थं सल्लोहमयमेव वा ॥ ३ ॥ भेदभिन्नं द्विजातीनां हितं बिम्बं फलार्थिनाम् । तदभिन्नमकामानां प्राप्तं चाप्यविरोधकृत् ॥ ४ ॥ अत्र चित्रमयं विद्धि भित्तिकाष्ठाम्बराश्रितम् । पुनः वर्णक्रमेणैव चतुर्धा चाम्बरोत्थितम् ॥ ५ ॥ तच्च कार्पासकौशेयक्षौमशाणमयं तु वै ।