भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 61, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 61

२ सात्वतसंहिता अत्रादौ विष्णुशब्दप्रयोगेण चिकीर्षितग्रन्थनिर्विघ्नपरिसमाप्तिसाधकं निरवधि- कमङ्गलं कृतं भवति । सिद्धगन्धर्वविद्याधरनिषेविते । देवतानामपि सेव्यत्वादतिपरि- शुद्धमित्यर्थः । मलयाचले = मलयपर्वते । मुनयः = भगवद्ध्यानशीला ऋषयः । विष्णोः जगद्व्यापनशीलस्य भगवतः । आराधनपराः सन्तः सर्वव्यापिनो भगवतः कुत्राराधनं कार्यम्? कथं तद्विधानम्? को वा उपदेक्ष्यतीति तदेकचित्ताः सन्त इत्यर्थः । संस्थिताः = समित्युपसर्गेण चिरकालीना स्थितिः सूच्यते ॥ १ ॥ मलयाचले नारदस्यागमनम् कालेन केनचित् स्वर्गाद्रामदर्शनलालसः । तत्रावतीर्णो देवर्षिर्नारदो भगवन्मयः ॥ २ ॥ कालेनेति । तत्रैवास्थितेषु मुनिषु । केनचित्कालेन = कतिपयकालानन्तर- मित्यर्थः । भगवन्मयः = भागवताग्रेसरः । नारदो नाम देवर्षिः । रामदर्शन- लालसः सन् = परशुरामसेवासक्तः सन् । तत्र = मलयाचले । स्वर्गादवतीर्णः = आविर्बभूव ॥ २ ॥

  • सुधा * साम्बं सदाशिवं नत्वा भानुं विष्णुं गणेश्वरम् । सर्वश्रेयस्करीं नित्यां मन्तरूपां सरस्वतीम् ॥ १ ॥ मालवीयकुलोत्पन्नः कुबेर विदुषः सुधीः । पुत्रः सुधाकरो नाम्ना पदार्थानां प्रकाशिकाम् ॥ २ ॥ सात्वतानां हितार्थाय तन्त्रस्य प्रतिपत्तये । सात्वतसंहिताकस्य 'सुधां' टीकां करोम्यहम् ॥ ३ ॥ जब सिद्ध, गन्धर्व एवं विद्याधरों से निषेवित मलयाचल पर विष्णु के आराधन में तत्पर मुनि लोग एकत्रित थे, उसके कुछ काल बीतने के पश्चात् भगवद् भक्तों में श्रेष्ठ देवर्षि नारद भगवान् परशुराम के दर्शन की इच्छा से वहीं मलयाचल पर्वत पर स्वर्ग से उपस्थित हुये ॥ १-२ ॥ ज्ञात्वा तस्याचलां भक्तिं देवः परशुलाञ्छनः । प्रत्यक्षमगमच्छश्वत् सानुकम्पेन चेतसा ॥ ३ ॥ अत्र मुनीन् सात्वतशास्त्रे प्रवर्तयेति नारदं प्रति रामोक्तिः—ज्ञात्वेति । परशुला- ञ्छनो देवः परशुरामः । तस्य देवर्षेः । अचलां भक्तिं स्वविषयकदृढाध्यवसायम् । ज्ञात्वा सानुकम्पेन = निर्हेतुककृपान्वितेन चेतसा प्रत्यक्षमगमत् = दृष्टिविषयतां प्रापेत्यर्थः ॥ ३ ॥ भगवान् परशुराम भी अपने विषय में उनकी अटल श्रद्धा देखकर उनके ऊपर कृपा करते हुये वहीं प्रगट हो गये ॥ ३ ॥
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक) · पृष्ठ 61, कुल 837 में से · BharatKosha