सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 63, कुल 837 में से
संदर्भ में पढ़ें४ सात्वतसंहिता एवमुक्तवा तु तं विप्रमृषीणां हितकाम्यया ॥ ७ ॥ जगामादर्शनं देवस्तस्माद् देशात् तटिद् यथा । एवमिति । देवः परशुरामः । एवं = पूर्वोक्तरीत्या, ऋषीणां हितकाम्यया तं विप्रं = नारदं प्रत्युक्तवा तस्माद्देशात् पर्वताग्रात् तटिद्यथा विद्युदिव क्षणमात्रेण अदर्शनं जगाम, अन्तर्हितो बभूवेत्यर्थः ॥ ७-८ ॥ स तु हृष्टमना वाक्यं शिरसा चाभिवाद्य तत् ॥ ८ ॥ निर्जगामार्चयित्वाऽथ पुष्पैः स्थानवरं तु तत् । स इति । अथ भगवदन्तर्धानान्तरम् । स नारदः । हृष्टमनाः सन् । तद्वाक्यं शिरसा अभिवाद्य, तदाज्ञां शिरसा धृत्वेत्यर्थः । तत् स्थानवरं भगवदाविर्भावस्थानं केवलं पुष्पैर्च्चयित्वा निर्जगाम, तस्मात् स्थानान्निर्गतः ॥ ८-९ ॥ अपश्यदाश्रमं चान्यं नानाद्विजन्मनिषेवितम् ॥ ९ ॥ तरुपुष्पफलैराढ्यं वापीकूपह्रदान्वितम् । अपश्यदिति । आश्रमम् = ऋषीणामावासस्थानमपश्यच्च । नानेत्यादिविशेषण- त्रयेऽऽश्रमस्यातिरामणीयकत्वमुक्तं भवति ॥ ९-१० ॥ मुनियों की हित की कामना से महर्षि परशुराम इतना कह कर, जिस प्रकार बिजली क्षण भर में अन्तर्हित हो जाती है उसी प्रकार वहाँ से अन्तर्हित हो गये । देवर्षि नारद उनकी आज्ञा सुन कर अत्यन्त प्रहृष्ट हुए और शिर से उनका अभि- वादन किया । फिर परशुराम जिस स्थान से अन्तर्हित हुये थे, उसी स्थान की पुष्पादि द्वारा पूजा की तथा वहाँ से सद्यः निकल पड़े । वहाँ से कुछ दूर जाकर उन्होंने नाना द्विजों से निषेवित एक अन्य आश्रम देखा । वह आश्रम वृक्षों, फूलों और फलों से अत्यन्त रमणीय था और वापी, कूप एवं तंडागों से परिपूर्ण था ॥ ७-१० ॥ सम्प्रहृष्टस्ततस्तत्स्थैर्द्विजेन्द्रैरभिवादितः ॥ १० ॥ पूजितश्चार्घ्यपाद्येन विनिवेशितविष्टरः । सम्प्रहृष्ट इति । ततः तदाश्रमदर्शनाद्धेतोः सम्प्रहृष्टः = स नारदः, तत्स्थैः = तदाश्रमस्थितैः, द्विजेन्द्रैरभिवादितः = नमस्कृतः, अर्घ्यपाद्येन पूजितश्च सन् विनिवेशि- तविष्टरः विष्टरे विनिवेशितश्चेत्यर्थः ॥ १०-११ ॥ अथाञ्जलिधराः सर्वे प्रोत्फुल्लनयनाम्बुजाः ॥ ११ ॥ वदन्ति जन्मसाफल्यमद्य नस्तव दर्शनात् । अथेति । अथ उपचरणानन्तरम्, सर्वे मुनयः प्रोत्फुल्लनयनाम्बुजाः सन्तः सन्तोषविकसितनेत्रकमलाः सन्तः, तव दर्शनाद्धेतोः, नः अस्माकम्, जन्मसाफल्यं जातमिति शेषः, इति वदन्ति, अवदन्निति भूतार्थकत्वमङ्गीकार्यम् ॥ ११-१२ ॥