सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 84, कुल 837 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः २५ एतैः समस्तैर्व्यस्तैर्वा कृतशुद्धिर्यथाबलम् ॥ इत्युक्तरीत्याऽनुष्ठितस्नानः । एतेषामनुष्ठानप्रकारास्तु पारमेश्वरादिषु द्रष्टव्याः । यद्यपि जयाख्योक्तं पारमेश्वरे चोपबृंहितमौदकस्नानं ग्राह्यम्, तथापि स्वसूत्रोक्तस्नानाद्य- नुष्ठानपारम्पर्ये सति तत्परित्यज्यान्यत्र ग्राह्यमिति निर्णीतं पाञ्चरात्ररक्षायाम् । अत्र स्नात इत्यनेनैव पार्थिवस्नानरूपमूर्ध्वपुण्ड्रधारणमपि संगृहीतम्, सन्ध्यावन्दनादिकमप्युपल- क्षितम् । शुद्धवासा इत्यनेन— गन्धैः स्रग्भिरलङ्कारैः सोत्तरीयैश्चभूषितः । कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः ॥ इत्याद्यर्थः संगृहीतः । क्षिप्तः । जितेन्द्रिय इत्यनेनाभिगमनं सूचितं भवति । यतः— जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥ अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् । (ज.सं. २२।६८-६९) इत्युक्ताभिगमनेन हीन्द्रियजयः सिद्ध्यति । पुष्पदर्भैधैरित्यनेनोपादानमुक्तं भवति । आदौ द्वाराग्रस्थं सचक्रं पतन्त्रिपं पूजयित्वेत्यनेनानयोः सर्वद्वारपालमुख्यत्वं सूच्यते । अत एवेश्वरपारमेश्वरयोश्चण्डादिषु जागरुकेष्वपि— 'नियोज्य तत्र रक्षार्थं चक्रं च पतगेश्वरम्' (ई० सं० ६।११६; पार०सं० ७।५२३) इत्युक्तम् । किञ्च, यागगेहद्वारार्चनप्रकरणेऽपि चण्डादीनामप्यर्चनाशक्तौ 'सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः' (ई० सं० ९।३००; पार० सं० ११।३०३) इत्युक्तम् । अर्चनस्थानं च तत्रैव व्यक्तमुक्तम्— 'ध्यायेद् द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम्' (ई० सं० ९।२२; पार० सं० ११।२१) इति प्रक्रम्य, प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे । संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ॥ इति । —(ई० सं० ९।२५-२६; पार० सं० ११।२५) बलिमण्डलाभावस्थले गोमयादिना सद्यः कल्पितेनाऽर्चनमुक्तं तत्रैव— स्थिते वा कल्पिते तत्र पूजयेद् बलिमण्डले । सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम् ॥ इति (ई.सं.२।९-१०) अस्मिन्नवसरे गर्भगेहद्वारपालार्चनमपि कार्यम् । तदत्रैव वक्ष्यति नृसिंह- कल्पपरिच्छेदे— स्नातो बद्धकचो मौनी शुद्धवासोऽर्घ्यपुष्पधृक् । कृत्वा द्वास्थ्यर्चनाद्यं तु उपविश्यासने ततः ॥ (१७।१६) इति । इदमेवोपबृंहितमीश्वरेऽपि— 'वास्तूपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम्' (२।११) इति । संविशेद भगवद्गृहमित्यत्र ईश्वरे द्वारविभाग उक्तः— प्रासादान्तःप्रवेशार्थं ततो द्वारं तु चेतसा । त्रिभागीकृत्य तन्मध्यभागमेकं द्विधा पुनः ॥ सा० सं० - 6