सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 95, कुल 837 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः सुषुप्तिव्यूहसमाराधनम् नारद उवाच पुनराह जगन्नाथः प्रसङ्गेन मुनीश्वराः । परमाराधनं प्राग्वत् परस्य चतुरात्मनः ॥ १ ॥ अथ तृतीयो व्याख्यास्यते । त्रिविधं चातुरात्म्यं तु सुषुप्यादिपदत्रिके । सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ॥ (१०।४२) इति लक्ष्मीतन्त्रोक्तरीत्या अव्यक्तस्य गुणमात्रलक्ष्यस्य 'अभेदेनात्ममूर्तेर्वै संस्थितं वटबीजवत्' (५।८१) इति वक्ष्यमाणरीत्या पराभिन्नस्य तुर्यव्यूहस्य 'स्वमूर्तिभिर- मूर्ताभिरच्युताद्याभिरन्वितः' (२।७२) इति पूर्वमेव तुर्यपदाश्रितेन परेण भगवता सहै- वोक्तत्वात् तत्प्रसङ्गेन पुनः सुषुप्तिपदाश्रितस्य व्यूहस्यार्चनं भगवान् सङ्कर्षणायो- पदिशतीत्याह—पुनरिति ॥ १ ॥ नारद जी ने कहा—हे मुनीश्वरो ! पुनः भगवान् जगन्नाथ ने प्रसङ्गवश पूर्ववत् पर चतुरात्मा का आराधन कहा ॥ १ ॥ विमर्श—इस परिच्छेद में सुषुप्तिपदाश्रित व्यूहात्मक भगवान् के स्वरूप की विवेचना की गई है तथा उनके समाराधन का प्रकार भी प्रदर्शित किया गया है । श्रीभगवानुवाच हवर्णकर्णिकायां तु सुषुप्याख्यपदे त्वधः । चतुर्धा प्रभवाख्येन क्रमेण तमजं यजेत् ॥ २ ॥ ज्ञानविद्याचतुष्केण यथा तदवधारय । वेदकत्वेन भगवान् ब्रह्मसंवलिताकृतिः ॥ ३ ॥ स्तम्बवत् कर्णिकामध्ये स्थित्वा वेद्यत्वमेति च । स्वयमेवोपकाराय कर्मिणां ब्रह्मयाजिनाम् ॥ ४ ॥ सुषुप्तिव्यूहस्यार्चनक्रमं शृणुष्वेत्याह—हवर्णेति सार्धेन । हवर्णकर्णिकायां