शारदा तिलक तन्त्र (हिन्दी व्याख्या सहित)
Sharada Tilak Tantra with Hindi Commentary
लक्ष्मण देशिकेन्द्र / चमन लाल गौतम द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली · 1950 (उद्गम)
पृष्ठ 489, कुल 511 में से
संदर्भ में पढ़ेंविंश पटल ] [ ४८६ आधारस्थितशक्तिबिन्दुनिलयां नीवारशूकोपमाम् । नित्यानन्दमयीं गलत्परसुधावर्षैः प्रबोधप्रदैः । सिक्तषट्सरसीरुहाणि विधिवत्कोदण्डमध्योदिताम् ध्यायेत्प्रास्वरबन्धुजीवरुचिरां सांवन्मयीं देवताम् ।७० हृत्पङ्केरुहभानुबिम्बानिलयां विद्युल्लतामत्सराम् । बालाकारुणतेजसा भगवता निर्भर्त्सयन्तीं तमः । नादाख्यं पदमर्द्धचन्द्रकुटिलं संविन्मय शाश्वतम् । यान्तीमक्षररूपिणीं विमलबोध्यत्येद्धिभुं तेजसाम् ।७१ भाले पूर्णं निशापतिप्रतिभटान्तोहारहारत्विषा । सिञ्चन्तीममृतेन देवममितनानन्दनी तनुम् । वर्णानां जननीं तदीयवपुषा संप्राप्य विश्वं स्थिताम् । ध्यायेत्सम्पगनाकुलेन मनसा संविन्मयोमम्बिकाम् ।७२ भूले भाले हृदि च विलसद्वर्णरूपा सावित्री । पोनोत्तुङ्गस्तनभरनमन्मध्यदेशा महेशी । चक्रे चक्रे गलितसुधया सिक्तगात्रा प्रकामां दद्यादाद्याश्रियर्मावकलां वाङ् मयी देवता नः ।७३ निजभवनिवासादुच्चरन्ती विलासैः । पथि पथि कमलानां चारुहासं विधाय । तरुणतरणि कान्तिः कुण्डली देवता सा । शिवसदनसुधाभिदांपयेदामातेजः ।७४