भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 132, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 132

त्यु॑रोडाशः पुरो॒दाशो॑ ह॒ वै ना॑मैतद्यत्पुरो॒डाश॒ इति॒ स ए॒ष उ॑भय॒त्राच्यु॑त॒ आ॒ग्ने॒यो ऽष्टाक॑पालः पुरो॒दाशो॑ भवति ॥ ५॥ स न पौर्णमा॒सँ ह॒विः । नामा॑वास्यम॒ग्नी- षोमी॑य ए॒व पौर्णमा॒सँ ह॒विः सांना॒य्यमा॑मावा॒स्यं॑ य॒ज्ञ उ॒वैष उ॑भय॒त्रावकॢ॑प्तो ने- द्य॒ज्ञाद्यानीति॒ न्वे॑व पुरस्ता॑त्पौर्णमा॒सस्य॑ क्रिय॒तऽए॒वमा॑मावा॒स्य॑स्यैतन्नु॒ तयो॒स्मा- द॒त्र क्रि॑यते ॥ ६॥ य॒द्युऽएन॑मुप॒धावे॑त् । ऋ॒ध्या मा॒ याज॑ये॒त्येतै॑रे॒व याज॑ये॒द्यत्कामा वाऽए॒तमृषयो॑ऽजुहुवुः स ए॒भ्यः काम॑ः सम॑र्ध्यत॒ यत्कामो ह॒ वाऽए॒तेन य॒ज्ञेन॒ य- ज॑ते॒ सोऽस्मै॒ काम॑ः समृध्यते॒ यस्यै॒ वै कस्यै॑ च दे॒वता॑यै ह॒विर्गृ॑ह्यते॒ऽग्नौ वै तस्यै॑ जुह्व॒त्यग्ना॒ऽउ चेद्बो॑ष्य॒न्त्यात्किमन्यस्यै॑ दे॒वता॑या॒ऽआदिशे॒त्तस्माद॒ग्नय॑ऽए॒व ॥ ७॥ अ- ग्निर्वै सर्वा॑ दे॒वता॑ः । अ॒ग्नौ हि सर्वा॑भ्यो दे॒वता॑भ्यो जु॒ह्वति॒ तद्यथा सर्वा॑ दे॒वता॑ उप॑धावे॒देवं तत्त्तस्माद॒ग्नय॑ऽए॒व ॥ ८॥ ॥ शतम् ५०० ॥ ॥ अ॒ग्निर्वै दे॒वाना॑मद्धा तमा॑म् । यं वाऽअ॒द्धातमां म॒न्ये॑त॒ तमु॑पधावे॒त्तस्माद॒ग्नय॑ऽए॒व ॥ ९॥ अ॒ग्निर्वै दे॒वानां॑ मृदु॒हृद॑यतमः । यं वै मृदु॒हृद॑यतमं म॒न्ये॑त॒ तमु॑पधावे॒त्तस्माद॒ग्नय॑ऽए॒व ॥ १०॥ अ- ग्निर्वै दे॒वानां॒ नेदि॑ष्ठम् । यं वै नेदि॑ष्ठमुपसर्त॒व्यानां॑ म॒न्ये॑त॒ तमु॑पधावे॒त्तस्माद॒ग्नय॑ ऽए॒व ॥ ११॥ स यदी॑ष्टिं कु॒र्वीत॑ । स॒प्तद॒श सामि॑धेनी॒रनु॑ब्रूया॒ऽपाङ्क्षु दे॒वतां॑ यज- ति तद्दीक्षि॑त॒रूपं मूर्धन्व॑त्यौ याज्यानुवा॒क्ये॑ स्यातां वार्त्रघ्नावा॒ज्यभा॒गौ वि॒राज्ञी सं- याज्ये॑ ॥ १२॥ ब्रा॒ह्म॒णम् ॥ १ [६. २.] ॥ ॥ त्वष्टु॒र्ह वै पुत्रः । त्रि॒शीर्षा ष॑ड॒क्ष आस॒ तस्य॒ त्रीण्ये॑व मु॒खान्या॑सु॒स्तद्य॒द्विश्व॑रूप आ॑स॒ तस्मा॑द्वि॒श्वरू॑पो नाम ॥ १॥ तस्य॒ सोम॑पान॒मेवै॒कं मुख॑मास । सु॒रापा॒णमेक॑- मन्य॒स्माऽअश॑नायै॒कं तमिन्द्रो॑ दिद्वेष॒ तस्य॒ तानि॒ शीर्षाणि॑ प्रचि॒च्छेद॑ ॥ २॥ स य- त्सोम॑पानमास । ततः कपि॑ञ्जलः सम॑भव॒त्तस्मा॒त्स ब॒भ्रुक॑-इव ब॒भ्रुरि॑व॒ हि सो- मो राजा॑ ॥ ३॥ अथ॒ यत्सु॒रापा॑णमास । ततः कल॑वि॒ङ्कः सम॑भव॒त्तस्मा॒त्सोऽभि॑मा- द्यत्क॑-इव वद॒त्यभि॑माद्यन्निव॒ हि सुरां॑ पी॒त्वा व॑दति ॥ ४॥ अथ॒ यद॒न्यस्मा॒ऽअश॑