भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 172, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 172

प्रदा॒य दक्षि॒णात्ये॑ति ॥ १३ ॥ स होतु॒रक्षि॒ निर्लि॑म्पति । तद्धो॒तौष्ठयो॒र्निर्लि॑म्पते मन॒सस्प॑तिना ते हु॒तस्या॑श्नामी॒षे प्रा॒णायेति॑ ॥ १४ ॥ अथ॒ होतुरक्षि॒ निर्लि॑म्पति । तद्धो॒तौष्ठयो॒र्निर्लि॑म्पते वाच॒स्पति॑ना ते हु॒तस्या॑श्नाम्यू॒र्ध्वऽउ॑दाना॒येति॑ ॥ १५ ॥ एत॒द्ध वै मनु॒र्बिभ॑यां चकार । इदं वै मे॒ तनि॑ष्ठं य॒ज्ञस्य॒ यदिय॒मिडा पा॑कय॒ज्ञिया॒ यदि॑ म ऽइ॒ह रक्षा॑ꣳसि य॒ज्ञं न हिꣳस्युरिति॒ तम॑तत्पु॒रा रक्षो॑भ्यः पु॒रा रक्षो॑भ्य इ॒त्येव प्रा- पय॒त् तथो॒ऽए॒वैना॑मे॒ष ए॒तत्पु॒रा रक्षो॑भ्यः पु॒रा रक्षो॑भ्य इ॒त्येव प्राप॑य॒त्येऽथ॒ यत्प्र- त्यक्षं॒ न प्रा॒श्नाति॒ नेदु॑पहू॒तां प्राश्ना॒मीत्ये॒तद्वैवैनां॑ प्रापयते॒ यद्धो॒ष्ठयो॒र्निर्लि॑म्पते ॥ १६ ॥ अथ॒ होतुः॑ पा॒णौ सम॑वद्यति । समव॑त्तमिव॒ सतीं॒ तदे॑नां॒ प्रत्य॒क्षꣳ होतृ॑- रि श्रयति॒ तया॑त्मं॒हूत॑या॒ होता॒ यज॑मानाया॒शिष॒माशा॑स्ते॒ तस्मा॒द्धोतुः॑ पा॒णौ सम॑- वद्यति ॥ १७ ॥ अथोपा॑ꣳशू॒पह्व॑यते । ए॒तद्वै मनु॑र्बिभयां चकारेदं वै मे तनि॑ष्ठं य॒ज्ञस्य॒ यदिय॒मिडा पा॑कय॒ज्ञिया॒ यदि॑ म॒ऽइ॒ह रक्षा॑ꣳसि य॒ज्ञं न॒ हन्यु॒रिति॒ तामे॑त- त्पु॒रा रक्षो॑भ्यः पु॒रा रक्षो॑भ्य इ॒त्येवोपा॑ꣳशूपा॒ह्वयत॒ तथो॒ऽए॒वैना॑मे॒ष ए॒तत्पु॒रा र- क्षो॑भ्यः पु॒रा रक्षो॑भ्य इ॒त्येवोपा॑ꣳशूप॒ह्वय॑ते ॥ १८ ॥ स उप॑ह्वयते । उप॑हू॒तꣳ रथन्त- र॒ꣳ सह पृ॑थि॒व्योप॒ माꣳ रथन्तर॒ꣳ सह पृ॑थि॒व्या ह्व॑यतामुप॑हूतं वाम॑दे॒व्य॒ꣳ स॒हा॒न्त- रिक्षे॒णोप॒ मां वा॑मदे॒व्य॒ꣳ सहा॒न्तरि॑क्षेण ह्वयतामुप॑हूतं बृह॒त्स॒ह दि॒वोप॒ मां बृ॒- ह॒त्स॒ह दि॒वा ह्व॑यता॒मिति॒ तदे॑तानि॒वैतदुप॑ह्वय॒मान इ॒मांश्च लो॒कानुप॑ह्वयतऽए॒ता- नि च॒ सामा॑नि ॥ १९ ॥ उप॑हूता गावः॒ सह॑ऽर्षभा॒ इति॑ । प॒शवो॒ वाऽइ॒डा तदे॑नां परो॒ऽक्षमू॒पह्व॑यते॒ सह॑ऽर्षभा॒ इति॑ स॒मिथु॑नामे॒वैना॑मे॒तदुप॑ह्वयते ॥ २० ॥ उप॑हूता स॒प्तहोत्रेति॑ । तदे॑नाꣳ स॒प्तहोत्रा सौम्ये॒नाध्व॑रेणोप॒ह्वय॑ते ॥ २१ ॥ उप॑हूतेडा ततु॒- रिरिति॑ । तदे॑नां प्रत्य॒क्षमू॒पह्व॑यते ततु॒रिरिति॒ सर्वꣳ ह्येषा पा॒प्मानं॑ तरति॒ तस्मा॑- दाह ततु॒रिरिति॑ ॥ २२ ॥ उप॑हूतः सखा भ॒क्ष इति॑ । प्रा॒णो वै सखा॑ भ॒क्षस्त॒त्प्रा- णमुप॑ह्वयत॒ऽउप॑हूत॒ꣳ हेगिति॑ तच्छरीरमुप॑ह्वयते तत्सर्व॑मुप॒ह्वय॑ते ॥ २३ ॥ अथ प्र-