शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 174, कुल 699 में से
संदर्भ में पढ़ें१५६ शतपथ ब्राह्मण तिपद्यते । इ॒डोपहू॑तोपहू॑ते॒डोपो॒ऽअ॒स्मांऽइडा॑ ह्वयतामि॒डोपहू॑तेति॒ तदुपहूता- मे॒वैना॑ने॒तत्सतॊ॑ प्रत्य॒क्षमुपह्व॑यते या वै सासीदौर्वे॑ सासीच्चतु॑ष्पदी वै गौस्तस्मा- च्चतु॒रुप॑ह्वयते ॥२४॥ स वै चतुरुप॑ह्वयमानः । अथ नानि॑वोप॒ह्वये॒तेऽजामि॑तायै जा- मि ह कुर्याद्यदि॒डोपहू॑ते॒डोपहू॑ते॒त्येवोप॑ह्वयेतोपहू॑ते॒डेति वे॒डोपहू॑तेति॒ तद॒र्वाची॑- मुप॑ह्वयत॒ऽउप॑हूते॒डेति तत्पराची॑मुपो॒ऽअ॒स्मांऽइडा॑ ह्वयतामिति॒ तदा॒त्मानं॑ चै- वै॒तन्नान्तरे॒त्यन्ये॑व च भवती॒डोपहू॑तेति॒ तत्पुनर॒र्वाची॑मुप॑ह्वयते॒ तद॒र्वाचीं॑ चै॒वै- न॑मेतत्पराचीं॑ चॊप॑ह्वयते ॥२५॥ मानवी घृ॒तप॑दीति । म॒नुर्ह्यै॑तामग्रे॑ऽजनयत॒ त- स्मादाह मानवी॑ति घृ॒तप॑दीति॒ यदि॒वास्यै घृ॒तं प॒दे सम॑तिष्ठत॒ तस्मा॑दाह घृ॒तप॒दी- ति ॥२६॥ उ॒त मै॑त्रावरु॒णीति॑ । यदि॒व मित्रावरुणाभ्या॒ꣳ सम॑गच्छत॒ स एव मै॑त्रा- वरु॒णो न्य॒ङ्गो ब्र॒ह्मा दे॑व॒कृतोप॑हूतेति॒ ब्रह्मा ह्ये॑षां॑ दे॒वकृ॑तोप॒हूतोप॑हूता दैव्या॑ ऋ॒त्विज॒ उप॑हूता मनु॒ष्या॒ इति तद्देवांश्चैवाध्व॑र्यूनू॒प॑ह्वयते॒ ये च मानु॒षा वत्सा वै दैव्या॑ ऋ॒त्विजॊऽथ य॒ऽइतरे॑ ते मानु॒षाः ॥२७॥ य॒ऽइ॒मं य॒ज्ञमवा॒न्त्ये च॑ य॒ज्ञप॑तिं व॒र्धानि॑ति । ए॒ते वै य॒ज्ञम॑वन्ति॒ ये ब्राह्म॑णाः शुश्रुवा॒ꣳसो॑ऽनूचा॒ना ए॒ते ह्ये॑नं त- न्वत॒ऽए॒तं जन॑यन्ति॒ तद् तेभ्यो॒ निह्व॑ते व॒त्सा उ वै य॒ज्ञप॑तिं वर्ध॑न्ति॒ यस्य॑ ह्ये॑ते॒ भूयि॑ष्ठा भव॒न्ति स हि य॒ज्ञप॑तिर्व॒र्धते॒ तस्मा॑दाह॒ ये च॑ य॒ज्ञप॑तिं व॒र्धानि॑ति ॥२८॥ उप॑हूते द्यावापृथिवी पूर्व॒जेऽऋ॒तावरी॑ दे॒वी दे॒वपु॑त्रे॒ऽइति॑ । तदि॒मे द्या- वापृथि॒वीऽउप॑ह्वयते ययो॒रिद॒ꣳ सर्व॑म॒ध्युप॑हूतो॒ऽयं यज॑मान॒ इति तद्यज॑मानमुप॑- ह्वयते॒ तद्यदत्र नाम॑ न गृह्णा॑ति परो॒ऽक्षं ह्ये॑त्राशी॒र्दि॒डायां मानु॒षꣳ ह कुर्याद्य- त्रास्य नाम॑ गृह्णीयाद्य॒द्वै तद्य॒ज्ञस्य यन्मानु॑षं॒ नेद्य॒दं यज्ञं करवा॑णीति॒ तस्मा॒न्न नाम॑ गृह्णा॑ति ॥२९॥ उत्त॒रस्यां॑ दे॒वय॒ज्यायामुपहू॑त॒ इति॑ । तद॒स्माऽए॒तत्सञ्जीवा॑तुमे॒व प॒- रो॒ऽक्षम॒ाशास्ते जीवन्हि पूर्व॑मि॒ष्ट्वाथाप॑रं यज॑ते ॥३०॥ तद॒स्मा ए॒तत्प्र॒जामि॑व प॒रो- ऽक्षम॒ाशास्ते । यस्य॒ हि प्र॒जा भव॑त्य॒मुं लो॒कमात्मनैत्यथा॒स्मिँल्लो॒के प्र॒जा यज॑ते