शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 22, कुल 699 में से
संदर्भ में पढ़ें४ | शतपथ ब्राह्मण
ऽइ॒ति ते॒ऽस्य॒ विश्वे॑ दे॒वा गृ॒हाना॒गच्छ॑न्ति ते॒ऽस्य गृ॒हेषू॑पवसन्ति स उपवस॒थः ॥७॥ तन्त्वे॒वानव॑कॢप्तम् । यो म॒नु॒ष्ये॑घ्न॒न्नत्सु पूर्वो॑ऽश्नीया॒दथ॒ किमु॒ यो दे॒वेष्व॑न॒श्नत्सु पूर्वो॑ऽश्नीया॒त्तस्मा॑दु नैवाश्नीयात् ॥८॥ तदु॑ होवाच याज्ञव॒ल्क्यः । यदि॒ नाश्ना॑ति पि॒तृ॒दे॒व॒त्यो भ॑वति॒ यद्यु॑ऽअ॒श्नाति॑ दे॒वानत्य॑श्नातीति॒ स यद॑शितमनशितं॒ तद॑- श्नीया॒दिति॒ यस्य॒ वै ह॒विर्न गृह्ण॑न्ति॒ तद॑शितमनशितꣳ स यद॑श्नाति॒ तेना॑पितृदेव- त्यो भ॑वति॒ यद्यु॒ तद॑श्नाति॒ यस्य॑ ह॒विर्न गृह्ण॑न्ति॒ तेनो॑ दे॒वान्नात्य॑श्नाति ॥९॥ स वाऽआ॑र॒ण्यमे॒वाश्नी॑यात् । या वा॑र॒ण्या ओष॑धयो॒ यद्वा॑ वृ॒क्ष्यं तदु॑ ह स्माह्यापि ब॒र्कु- र्वाष्णो॑ मा॒षान्मे॑ पचत॒ न वा॒ऽए॒तेषाꣳ॑ ह॒विर्गृह्ण॒न्तीति॒ तदु॒ तथा॒ न कु॑र्याद्ब्री॒हि- य॒वयो॒र्वाऽए॒तद्रू॒पं यन्मी॑धान्यं॒ तद्ब्री॒हिय॒वावे॒वैते॑न भूयाꣳसौ क॒रोति॒ तस्मा॑दा- र॒ण्यमे॒वाश्नी॑यात् ॥१०॥ स आ॑हवनीयागा॒रे वैताꣳ॑ रा॒त्रिꣳ श॑यीत । गा॒र्हप॑त्यागा॒रे वा दे॒वान्वा॒ऽए॒ष उ॑पाव॒र्तते॒ यो व्र॒तमुपै॑ति॒ स याने॒वोपा॒वर्त॑ते॒ तेषा॑मे॒वैतन्म॑ध्ये शेते॒ऽधः श॑यीताध॒स्तादि॑व॒ हि श्रेय॑स उपचा॒रः ॥११॥ स वै प्रा॒तर॒प ए॑व । प्र॒थ- मे॑न॒ कर्म॑णाभि॒पद्य॑ते॒ऽपः प्र॑णयति य॒ज्ञो वा॒ऽआपो॑ य॒ज्ञमे॒वैतत्प्र॑थ॒मेन॒ कर्म॑णाभि- पद्य॑ते॒ ताः प्र॑णयति य॒ज्ञमे॒वैतद्वि॑तनोति ॥१२॥ स प्र॑णयति । क॒स्त्वा यु॑नक्ति॒ स त्वा यु॑नक्ति॒ कस्मै॑ त्वा यु॑नक्ति॒ तस्मै॑ त्वा युनक्तीत्ये॒ताभि॑रनिरु॒क्ताभि॑र्व्या॒हृति॑भिरनि- रु॒क्तो वै प्र॒जाप॑तिः प्रजाप॑तिर्य॒ज्ञस्तत्प्र॒जाप॑तिमे॒वैतद्य॒ज्ञं यु॑नक्ति ॥१३॥ यद्वे॑वा॒पः प्र॑णय॑ति । अ॒द्भिर्वा॒ऽइदꣳ॑ सर्व॑मा॒प्तं तत्प्र॑थ॒मेनै॒वैतत्कर्म॑णा॒ सर्व॑माप्नोति ॥१४॥ य- द्वे॑वा॒स्त्यात्र॑ । होता॑ वाध्व॒र्युर्वा॒ ब्रह्मा॑ वा॒ग्नीध्रो॑ वा स्व॒यं वा यज॑मानो॒ नाभ्या॒पद्य॑ति तद्देवा॒स्यैते॑न॒ सर्व॑मा॒प्तं भ॑वति ॥१५॥ यद्वे॑वा॒पः प्र॑णय॑ति । दे॒वान्ह॒ वै य॒ज्ञेन॒ यज॑- मानां॒स्तानसु॑ररक्ष॒सानि॑ ररक्षु॒र्न यक्ष्य॑ध॒ इति॒ तद्यदुर॑क्षं॒स्तस्मा॒द्रक्षां॑सि ॥१६॥ ततो॑ दे॒वा ए॒तं वज्रं॑ ददृशुः । यदपो॑ व॒ज्रो वा॒ऽआपो॑ व॒ज्रो हि वा॒ऽआप॒स्तस्मा॒द्येने॑- ता य॑न्ति॒ निघ्नं॑ कु॒र्वन्ति॒ यत्रो॑पति॒ष्ठन्ते॒ निर्द॑हन्ति॒ तत॑ ए॒तं वज्र॑मुद्यच्छं॒स्तस्या॑भये