शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 238, कुल 699 में से
संदर्भ में पढ़ेंअथै॒तदे॒व प॒रोऽक्षं॑ रू॒पं । यदे॒व पु॒रस्ताद्वा॑ति॒ तद्व॑स॒न्तस्य॑ रू॒पं यत्स्तन॑यति॒ तद्ग्री॒- ष्मस्य॒ यद्वर्ष॑ति॒ तद्व॑र्षाणां॒ यद्विद्योत॑ते॒ तच्छ॒रदो॒ यदु॑द्गृह्णाति॒ तद्धे॑मन्त॒स्य वर्षाः सर्व॑ ऽऋ॒तव॑ ऋ॒तून्प्रावि॑शदृतु॒भ्य ए॒वैन॑मेतन्निर्मि॑मीते ॥८॥ आ॒दि॒त्यस्त्वे॑व सर्व॑ऽऋ॒तवः॑ । यदि॒वोदेत्य॑थ वस॒न्तो यदा॑ संग॒वोऽथ॑ ग्री॒ष्मो यदा॑ मध्य॒न्दिनोऽथ॑ वर्षा य॒दापरा॒ह्णो ऽथ श॒रद्य॒देवास्त॑मे॒त्यथ॑ हेमन्त॒स्तस्मा॑न्मध्यन्दिन॒ऽएवा॑दधीत॒ तर्हि॑ ह्ये॒षोऽस्य॑ लो॒कस्य॒ नेदि॑ष्ठं भ॑वति॒ तन्नेदि॑ष्ठादे॒वैन॑मेतन्मध्यान्निर्मि॑मीते ॥९॥ छा॒येये॑व वाऽअ॒- यं पुरु॑षः । पा॒प्मनानु॑षक्तः सो॒ऽस्यात्र॒ कनि॑ष्ठो भवत्यथ॒ य॒दूर्ध्वं॒ नि॒वेप्य॑ते॒ तत्कनि॑ष्ठ- मे॒वैतत्पा॒प्मान॑मव॒बाध॑ते॒ तस्मा॑न्मध्यन्दिन॒ऽएवा॑दधीत ॥१०॥ तं वै दर्भैरु॒द्धर॑ति । दारु॑भि॒र्वे पूर्व॑मु॒द्धर॑ति दारु॑भिः पूर्वं दारु॑भिर॒परं॒ जामि॑ कुर्यात्स॒मदं॑ कुर्यादापो॒ दर्भा आपो॒ वर्षा॑ ऋ॒तून्प्रावि॑शद॒द्भ्य ए॒वैन॑मे॒तद॒द्भ्यो निर्मि॑मीते॒ तस्मा॑द्दर्भैरु॒द्धर॑ति ॥११॥ अ॒र्कप॒लाशाभ्यां॑ । व्रीहि॒मयम॒पूपं॑ कृ॒त्वा यत्र॒ गार्ह॑पत्यमा॒धास्य॒न्भव॑ति॒ तन्निद॑धाति तद्गार्ह॑पत्यमा॒दधा॑ति ॥१२॥ अ॒र्कप॒लाशाभ्यां॑ । यव॒मयम॒पूपं॑ कृ॒त्वा यत्रा॒हव॑नीयमा॒- धास्य॒न्भव॑ति॒ तन्निद॑धाति॒ तदा॒हव॑नीयमा॒दधा॑ति पूर्वार्ध्यामे॒वैना॑वेतद॒ग्निभ्या॒मन्त॑र्द्धम् इति॒ वद॑न्तस्त॒दु तथा॑ न कुर्याद्रा॒त्रिभि॑र्ह्येवान्त॒र्हितौ॑ भवतः ॥१३॥ आ॒ग्ने॒यमे॒व प॒- ञ्चक॒पालं॑ पुरो॒डाशं॒ निर्व॑पति । तस्य॒ पञ्च॑पदाः प॒ङ्क्त्यो याज्यानुवाक्या॑ भवन्ति प॒ञ्च वाऽऋ॒तव॑ ऋ॒तून्प्रावि॑शदृतु॒भ्य ए॒वैन॑मेतन्निर्मि॑मीते ॥१४॥ सर्व॑ आग्ने॒यो भ॑वति । ए॒तद्वै विष्णोः प्रि॒यं धामो॒पाग॑च्छ॒त्तस्मा॑त्सर्व आग्ने॒यो भ॑वति ॥१५॥ तेनो॑पा॒ꣳशु चर॑न्ति । यद्वै ज्ञा॒तये॑ वा स॒ख्ये वा निष्केव॒ल्यं चि॑िकी॒र्षति तिर॒ इवैते॑न बीभत्स॑ते- यद्दे॒वेभ्यो॒ऽन्यो य॒ज्ञोऽथै॑ष निष्केव॒ल्य आ॑ग्ने॒यो यद्वै तिर॒ इव॒ तदु॑पा॒ꣳशु॒ तस्मा॑दुपा॒ꣳशु चर॑न्ति ॥१६॥ उच्चैरु॑त्त॒ममनू॑या॒जं य॑जति । कृ॒तक॑र्मेव॒ हि स तर्हि॑ भ॑वति॒ सर्वै॑- र्हि कृ॒तमनु॑बुध्यते ॥१७॥ स आ॒श्राव्या॑ह । स॒मिधो॑ य॒जेति॒ तदा॑ग्ने॒यꣳ रू॒पं प॒रोऽक्षं॑ त्वम॒ग्नियजेति॑ ह्ये॒व ब्रूया॒त्तद्देव प्रत्य॒क्षमा॑ग्ने॒यꣳ रू॒पम् ॥१८॥ स य॑जति । अ॒न्नाद्या॒य-