शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 254, कुल 699 में से
संदर्भ में पढ़ेंज्यो॒ति॒र्यदे॒ सत्येन॑ हू॒यते॒ तद्दे॒वाना॒हुति॑ ॥ ३०॥ तद् धैतदे॒वारु॑णये ब्रह्मवर्चसका- माय॒ तन्नानू॑वाचाग्नि॒र्वर्चो॒ ज्योति॒र्वर्चः॒ सूर्यो वर्चो॒ ज्योति॒र्वर्च॒ इति॑ ब्रह्मवर्च॒सी है॒व भव॑ति॒ य ए॒वं वि॒द्वान॒ग्निहोत्रं॑ जु॒होति॑ ॥ ३१॥ तद्वस्त्वे॒व प्र॒जनन॑स्येव रू॒पम् । अ- ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहेति॒ तदु॒भयतो॒ ज्योती रेतो॑ दे॒वत॑या परि॒गृह्णा॒त्युभ॑यतः- परिगृहीतं वै रेत॑: प्र॒जाय॑ते॒ तदु॑भयत एवैतत्परि॒गृह्य॑ प्र॒जनय॑ति ॥ ३२॥ अथ प्रा- तः । सूर्यो॒ ज्योति॒र्ज्योति॑: सूर्य॑: स्वाहेति॒ तदु॒भयतो॒ ज्योती रेतो॑ दे॒वत॑या परि॒गृ- ह्णा॒त्युभ॑यतःपरिगृहीतं वै रेत॑: प्र॒जाय॑ते॒ तदु॑भयत एवैतत्परि॒गृह्य॑ प्र॒जनय॑ति॒ त त्प्र॒जनन॑स्य रू॒पम् ॥ ३३॥ तदु॑ होवाच जीव॒लश्चैलाकि॑: । गर्भ॑मे॒वारु॑णिः करो॒ति न प्र॒जनय॑तीति॒ स ए॒तेनैव सायं॑ जुहुयात् ॥ ३४॥ अथ प्रातः । ज्योति॑: सूर्य॑: सूर्यो॒ ज्योति॒: स्वाहेति॒ तद्वहि॑र्द्धा ज्योती रेतो॑ दे॒वत॑या करोति ब॒हिर्द्धा वै रेत॑: प्र॒जातं भव॑ति॒ तदे॒तत्प्र॒जनय॑ति ॥ ३५॥ तदाहुः । अ॒ग्नावे॒वैतत्साय॒ ँ सूर्य॑ जुहोति॒ सूर्ये॑ प्रा- तर॒ग्निमिति॒ तद्वै तदु॑दितहो॒मिनामेव॒ यदा॒ ह्ये॑व सूर्यो॑ऽस्तमे॒त्यथा॒ग्निर्ज्योति॒र्यदा॒ सूर्य॑ उ॒देत्यथ॒ सूर्यो॒ ज्योति॒र्नास्य॒ सा परि॑च॒न्नेयमे॑व॒ परि॑चक्षा॒ यत्तस्यै॒ नाष्ट्रा दे॒वता॑यै हू- यते॒ या॒ग्निहोत्रस्य दे॒वता॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहेति॒ तन्न नाग्नये॒ स्वाहेत्यथ॒ प्रा- तः सूर्यो॒ ज्योति॒र्ज्योति॑: सूर्य॑: स्वाहेति॒ तन्न सूर्या॑य॒ स्वाहेति॑ ॥ ३६॥ अनेनैव॑ जु॑हुयात् । स॒मूर्द्वेवेन॑ सवि॒त्रेति॒ तत्स॑वि॒तृप्र॑सवाय॒ सन्नू रात्र्येन्द्व॑त्ये॒ति तद्रात्र्या मिथु॒नं करो॑ति॒ सेन्द्रं॑ करोतीन्द्रो॒ हि य॒ज्ञस्य दे॒वता जुषाणो॒ऽअ॒ग्निर्वेतु॒ स्वाहेति॒ तद॒ग्नये॒ प्रत्यनं॑ जुहोति ॥ ३७॥ अथ प्रातः । स॒मूर्द्वेवेन॑ सवि॒त्रेति॒ तत्स॑वि॒तृप्र॑- सवाय॒ सन्नूष॒सेन्द्व॑त्येत्यह्नेति वा॒ तदह्नां वोष॑सां वा मिथु॒नं करो॑ति॒ सेन्द्रं॑ क- रोतीन्द्रो॒ हि य॒ज्ञस्य दे॒वता जुषाणः॒ सूर्यो॑ वेतु॒ स्वाहेति॒ तत्सूर्या॑य॒ प्रत्यनं॑ जुहुया- दिति॒ तस्मा॑दे॒वमेव जु॑हुयात् ॥ ३८॥ ते होचुः । को न इ॒द ँ होष्यतीति ब्राह्म॒णा ꣳ॒ह्वेति॒ ब्राह्म॒णो॑ नो जुहुधीति॒ किं मे ततो॑ भविष्यतीत्य॒ग्निहोत्रोच्छि॑ष्टमे॒वेति॒ स