शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 260, कुल 699 में से
संदर्भ में पढ़ेंक॒नीयाग्॑सो॒ हि दे॒वा मनु॒ष्येभ्यो॑ऽथ॒ यद्भूय॑ऽइ॒वोत्त॑रां॒ भूयाग्॑सो॒ हि मनु॒ष्या॑ दे॒वे- भ्योऽथ॒ यद्भूय॑ इव सुचि॒ परि॑शि॒नष्टि॒ भूयाग्॑सो॒ हि पश॑वो मनु॒ष्येभ्यः॑ क॒नीयाग्॑सो ह॒ वाऽअ॒स्य भार्या॑ भवन्ति॒ भूयाग्॑सः प॒शवो॒ य ए॒वं वि॒द्वान॒ग्निहोत्रं॑ जु॒होति॒ तद्ध॑ समृद्धं॒ यस्य॑ क॒नीयाग्॑सो भा॒र्या अ॑स॒न्भूयाग्॑सः प॒शवः॑ ॥ १८ ॥ ब्रा॒ह्म॒णम् ॥ ४ [३.२.] ॥ ॥ द्वितीयः प्रपाठकः ॥ ॥ कण्डिकासंख्या १०३ ॥ ॥ यत्र॒ वै प्र॒जाप॑तिः प्र॒जाः स॑सृ॒जे । स य॒त्राग्निग्॑ ससृ॒जे स इदं॒ जातः॒ सर्व॑मेव दु॒- ग्धुं द॑धृ॒ऽइत्ये॒वाबि॑लमेव ता यास्तर्हि॑ प्र॒जा आ॑सु॒स्ता ह्ये॑नग्ं स॒म्पेष्टुं॑ दधिरे सो॒- ऽतिति॑क्षमाणः पु॒रुष॑मे॒वाभ्ये॑याय ॥ १ ॥ स होवाच । न वाऽअ॒र्हमि॒दं तितिक्षे ह॒न्त वा प्रवि॑शानि॒ तं मा॑ जनयि॒त्वा बि॑भृहि॒ स य॑थैव॒ मां त्वम॒स्मिल्लो॒के ज॑नयि॒- त्वा भ॑रि॒ष्यस्ये॒वमे॒वाहं त्वा॑म॒मुष्मिंल्लो॒के ज॑नयि॒त्वा भ॑रिष्या॒मीति॒ तथेति॒ तं ज॑नयि॒- त्वा॑बिभ्रः ॥ २ ॥ स यद॒ग्नीऽआ॒धत्ते॑ । तदे॑नं॒ जन॑यति॒ तं ज॑नयि॒त्वा बिभ॑र्ति॒ स यथा॒ है॒वैष ए॒तम॒स्मिल्लो॒के ज॑नयि॒त्वा बिभ॒र्त्येव॒मु है॒वैष ए॒तम॒मुष्मिंल्लो॒के ज॑नयि॒त्वा बि- भ॑र्ति ॥ ३ ॥ तन्न स॒म्युद्वा॑सयेत । सा॒मि ह्य॑स्मे॒ स ग्ला॑यति॒ स यथा॒ है॒वैष ए॒तस्मा॒- ऽअ॒स्मिल्लो॒के सा॒मि ग्लाय॑त्ये॒वमु॒ है॒वैष ए॒तस्मा॒ऽअ॒मुष्मिंल्लो॒के सा॒मि ग्ला॑यति॒ तस्मा॒न्न स॒म्युद्वा॑सयेत ॥ ४ ॥ स यत्र॒ म्रिय॑ते । यत्रैनम॒ग्नावभ्याद॑धति॒ तद्दे॒षोऽग्ने॑रधि॒- जाय॑ते॒ स ए॒ष पु॒त्रः स॒न्पिता॑ भवति ॥ ५ ॥ तस्मा॑दे॒तदृषि॑णा॒भ्यनू॑क्तम् । श॒तमिन्नु श॒रदो॒ऽअन्ति॑ दे॒वा यत्रा॑ नश्च॒क्रा ज॒रसं॑ तनू॒नाम् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॒ मध्या री॑रिष॒तायु॒र्गन्तो॒रिति॑ पु॒त्रो ह्ये॑ष स॒न्त्स पुन॑: पि॒ता भव॑त्ये॒तन्नु॒ तद्य॑स्मा- द॒ग्नीऽआ॒दधी॑त ॥ ६॥ तद्वाऽए॒ष ए॒व मृत्युः॑ । य ए॒ष तप॑ति॒ तद्य॑दे॒ष ए॒व मृत्यु॒- स्तस्मा॒द्या ए॒तस्माद॑र्वाच्यः प्र॒जास्ता म्रिय॑न्ते॒ऽथ याः परा॑च्य॒स्ते दे॒वास्तस्मा॒डु ते॒ऽमृ- तास्त॒स्यिमाः सर्वा॑: प्र॒जा र॒श्मिभि॑: प्रा॒णेष्व॒भिहि॑ता॒स्तस्मा॒डु र॒श्मय॑: प्रा॒णानन्व॑वताय॒- न्ते ॥ ७ ॥ स यस्य॑ काम॒यते॑ । तस्य॑ प्रा॒णमा॒दायोदे॑ति॒ स म्रिय॑ते॒ स यो॒ हैतं मृत्यु॒म्-