भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 288, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 288

ते॒न य॒ज्ञेन॒ यज॑ते॒ तस्मा॑द्वाऽए॒तेन॒ यजे॑त ॥ २॥ तेनो॑ ह॒ तत॑ ईजे । प्रतीद॒र्शः श्यै॒- क्यः॒ स ये॒ तं प्र॒त्यासु॒स्तेषां॑ वि॒वच॑नमिव॒ास वि॒वच॑नमिव ह॒ वै भ॑वति॒ य ए॒वं वि॒द्वाने॒तेन॒ य॒ज्ञेन॒ यज॑ते॒ तस्मा॑द्वाऽए॒तेन॒ यजे॑त ॥ ३॥ तमा॒जगा॑म । सु॒क्षा सार्ङ्गयो॒ ब्रह्मच॒र्यं॒ तस्मा॑दे॒तं च॑ य॒ज्ञमनू॒चेऽन्य॑मु च॒ सोऽनू॒च्य पुन॑ः सृञ्जया॒न्जगा॑म॒ ते ह॒ सृ॒- ञ्जया वि॒दां च॒क्रुर्यज्ञं॑ वै नो॒ऽनूच्या॑गन्निति॒ ते हो॑चुः सह॒ वै न॒स्तद्देवै॒राग॒न्यो नो॑ य॒ज्ञमनू॒च्याग॒न्निति॒ स वै सह॑देवः सार्ङ्गयस्तदु॒ह्ये॑तद्वि॒वच॑नमिवास्त्यन्य॒द्वाऽअ॒ग्रे सु॒- क्षा नाम॑ दधृ॒ङ्ङिति॒ स ए॒तेन॒ य॒ज्ञेने॑जे॒ स ए॒तेन॒ य॒ज्ञेने॒ष्ट्वा येयं॑ सृञ्जया॒नां प्र॒जाति॒र्या श्रीरे॒तद्बभू॑वेताँ॒ ह॒ वै प्र॒जातिं॑ प्र॒जायत॒ऽएताँ॒ श्रियं॑ गच्छति॒ य ए॒वं वि॒द्वाने॒तेन॒ य॒ज्ञेन॒ यज॑ते॒ तस्मा॑द्वाऽए॒तेन॒ यजे॑त ॥ ४॥ तेनो॑ ह॒ तत॑ ईजे । दे॒वभा॒गः श्रौत॒र्षः स उ॒भये॑षां कु॒रूणां॑ च सृञ्जया॒नां च॑ पु॒रोहि॑त॒ आस॑ पर॒मता॒ वै सा यो न्वेवै॑कस्य॒ राष्ट्रस्य॑ पु॒रोहि॑तोऽसत्सा॒ न्वेव॑ पर॒मता॒ किमु॒ यो द्वयो॑ः पर॒मतामिव ह॒ वै ग॒च्छ- ति॒ य ए॒वं वि॒द्वाने॒तेन॒ य॒ज्ञेन॒ यज॑ते॒ तस्मा॑द्वाऽए॒तेन॒ यजे॑त ॥ ५॥ तेनो॑ ह॒ तत॑ ईजे । द॒क्षः पा॑र्व॒तिस्त॒ऽइमे॒ऽप्येत॑र्हि दाक्षाय॒णा रा॒ज्यमि॑वैव प्राप्ता रा॒ज्यमि॑ह॒ वै प्राप्नो॑ति॒ य ए॒वं वि॒द्वाने॒तेन॒ यज॑ते॒ तस्मा॑द्वाऽए॒तेन॒ यजे॑त॒ स वाऽऐ॒कैक॒ ए॒वानू॒- चीना॒कं पु॒रोडा॒शो भ॑वत्येते॒नो हास्यास॒प्तवा॒नुप॑बाधा॒ श्रीर्भव॑ति॒ स वै द्वे पौर्ण- मा॒स्यौ य॑जते॒ द्वेऽअ॑मावा॒स्ये॑ द्वे वै मि॑थु॒नं मि॑थु॒नमे॒वैतत्प्र॒जननं॑ क्रियते ॥ ६॥ अथ॒ यत्पूर्वेद्यु॑ः । अ॒ग्नीषोमी॑येण॒ यज॑ते पौर्णमा॒स्यां ते द्वे दे॒वते॒ द्वे वै मि॑थु॒नं मि॑थु॒नमे॒- वैतत्प्र॒जननं॑ क्रियते ॥ ७॥ अथ प्रा॒तः । आ॒ग्ने॒यः पु॒रोडा॒शो भ॑वत्यैन्द्रा॒ग्नँ सांना॒य्यं ते द्वे दे॒वते॒ द्वे वै मि॑थु॒नं मि॑थु॒नमे॒वैतत्प्र॒जननं॑ क्रियते ॥ ८॥ अथ॒ यत्पूर्वेद्यु॑ः । ऐ॒- न्द्रा॒ग्नेन॒ यज॑तेऽमावा॒स्या॑यां ते द्वे दे॒वते॒ द्वे वै मि॑थु॒नं मि॑थु॒नमे॒वैतत्प्र॒जननं॑ क्रियते ॥ ९॥ अथ प्रा॒तः । आ॒ग्ने॒यः पु॒रोडा॒शो भ॑वति मैत्रावरु॒णी प॒यस्या॑ नेद्यज्ञा॒द्यानी॒- ति॒ न्वे॒वाग्ने॒यः पु॒रोडा॒शोऽथैतावे॒व मि॑त्रावरु॒णौ द्वे दे॒वते॒ द्वे वै मि॑थु॒नं मि॑थु॒नमे॒-