शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 292, कुल 699 में से
संदर्भ में पढ़ें२७४ शतपथ ब्राह्मण ति॒ न्वे॒वाग्रे॒यः पु॑रोडाशो॒ऽथैतावे॒वार्धमासौ॑ मित्रावरुणौ॒ य ए॒वापूर्य॑ते॒ स वरु॑णो यो॒ऽपक्षी॒यते॒ स मि॒त्रस्तावे॒ताꣳ रात्रि॑मु॒भौ समा॑गच्छतस्तद्भावे॒वैतत्सह॒ सन्तो॑ प्री- णाति सर्वँ॑ ह॒ वाऽअ॒स्य प्री॒तं भ॑वति सर्व॑मा॒प्तं य ए॒वमे॒तद्वेद॑ ॥ १८ ॥ तद्वाऽए॒- ताꣳ रात्रि॑ । मि॒त्रो वरु॑णे॒ रेतः॑ सिञ्चति॒ तदे॒तेन॒ रेत॑सा प्रजा॒यते॒ यदा॒पूर्य॑ते॒ तद्य॒- द्वेषा॒त्र मै॑त्रावरु॒णी प॑य॒स्यावकॢ॑प्ततमा॒ भव॑ति ॥ १९ ॥ सां॒नाय्य॑भाजना॒ वाऽअ॑मावा॒- स्या । तद्द्यस्त॒त्पौर्ण॑मास्यां क्रियते॒ स य॒द्वात्रा॑पि सं॒नये॒त्सामि॑ कुर्यात्स॒मदं॑ कुर्यात्त॒- देनम॒द्य ओष॑धिभ्यः संभृत्या॒हुति॑भ्यो॒ऽधिप्र॑जनयति॒ स ए॒ष आ॒हुति॑भ्यो जा॒तः प॒- श्वादृशे॑ ॥ २० ॥ मिथुना॒द्विद्वाऽए॒नमेतत्प्र॒जन॑यति । योषा॒ पय॑स्या॒ रेतो॑ वा॒जिनं॑ त॒- द्धाऽअनु॒ध्या यन्मिथुना॒ज्जाय॑ते॒ तदे॒नमे॒तस्मान्मिथुना॒त्प्रज॑ननात्प्र॒जन॑यति॒ तस्मा॒द्येषा॒- त्र पय॑स्या भवति ॥ २१ ॥ अथ वा॒जिभ्यो॑ वा॒जिनं॑ जुहोति । ऋ॒तवो॒ वै वा॒जिनो॒ रेतो॑ वा॒जिनं॒ तदनु॑ह्येवैतद्रेतः॑ सिच्यते॒ तदृतवो॒ रेतः॑ सि॒क्तमि॒माः प्र॒जाः प्र॒जनय॑- न्ति॒ तस्मा॑द्वा॒जिभ्यो॑ वा॒जिनं॑ जुहोति ॥ २२ ॥ स वै प॒श्चादिव॑ य॒ज्ञस्य॑ जुहोति । प॒- श्चाद्धि॒ परीत्य॒ वृषा॒ योषा॑मधि॒द्रव॑ति त॒स्याꣳ रेतः॑ सिञ्चति॒ स वै प्रागे॒वाग्रे जुहो- त्यग्रे॒ वोद्गा॒त्यनु॑वषट्करोति॒ तत्स्वि॑ष्ट॒कृद्भाजनꣳ स वै प्रागे॒व जुहो॑ति ॥ २३ ॥ अथ॑ दि॒शो व्या॒घार॑यति । दि॒शः प्र॒दिश॒ आदि॑शो वि॒दिश॑ उद्दि॒शो दिग्भ्यः॒ स्वाहेति॑ प॒ञ्च दिशः॑ प॒ञ्चऽर्त॒वस्त॒दृतु॑भिरे॒वैतद्दि॒शो मि॑थुनीक॒रोति॑ ॥ २४ ॥ तद्वै प॒ञ्चैव भक्ष॑- यन्ति । होता॒ चाध्व॒र्युश्च॒ ब्रह्मा॑ चा॒ग्नीध्र॑ यज॑मानः प॒ञ्च वाऽऋ॒तवस्तदृतूनामे॒वैतद्रूपं॑ क्रियते॒ तदृतु॒ष्वेवैतद्रेतः॑ सि॒क्तं प्र॒तिष्ठा॑पयति प्रथमो यज॑मानो भक्षयति प्रथमो॒ रेतः॑ प॒रिगृह्ना॒नीत्यथो॒ऽअप्यु॑त्त॒मो मय्यु॑त्तमे॒ रेतः॒ प्रति॑तिष्ठा॒दित्य॑पृच्छत॒ उप॑ह्वय॒स्वेति॑ सो- ममे॒वैतत्कुर्वन्ति॑ ॥ २५ ॥ ब्राह्मणम् ॥ १ [४. ४.] ॥ अध्यायः ॥ ४ [१३.] ॥ ॥ प्र॒जाप॑तिर्ह॒ वाऽइ॒दमग्र॒ऽएक॑ ए॒वास॑ । स ऐक्षत क॒थं नु प्र॒जाये॒येति॒ सो॑ऽश्रा- म्यत्स तपो॑ऽतप्यत॒ स प्र॒जा असृ॑जत ता अस्य प्र॒जाः सृ॒ष्टाः परा॑बभूवुस्ता॒नीमा॑नि