भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 298, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 298

ए॒तद्व्य॑ ए॒तैर्ह॒विर्भिः॑ प्र॒जाः सृ॒ष्ट्वा ता द्यावापृथि॒वीभ्यां॒ परि॑गृह्णाति॒ तस्मा॒द्द्यावा- पृथि॒व्य १ककपालः पुरोडा॒शो भ॑वति ॥ १७॥ अथात आवृदेव । नोप॑किर॒त्युत्त॑र- वे॒दिं विसृ॑ष्टमसत॒त्सर्व॑मसद्वैश्वदेव॒मस॒दिति॑ त्रे॒धा ब॒र्हिः संन॑द्धं भवति॒ तत्पुन॒रेक॑धे- तद्धि प्र॒जनन॑स्य रू॒पं प्र॒जनन॒मु हीदं॑ पि॒ता मा॒ता यज्जाय॑ते॒ तत्तृ॒तीयं॒ तस्मा॒त्त्रेधा सत्पुन॒रेक॑धा प्र॒स्व उप॒संन॑द्धा भवन्ति॒ तं प्र॒स्तरं॑ गृह्णाति प्र॒जनन॒मु हीदं॑ प्र॒जनन॑- मु हि प्र॒स्त्वस्त॑स्मात्प्र॒स्व॑ः प्र॒स्तरं॑ गृह्णाति ॥ १८॥ आ॒साद्य॑ ह॒वीᳪष्य॒ग्निं म॑न्थन्ति । अ॒ग्निꣳ ह॒ वै जाय॑मान॒मनु॑ प्र॒जाप॑तेः प्र॒जा अ॑सृजिरे तथो॒ऽए॒वैत॒स्याग्नि॑मेव॒ जाय॑मान- मनु॑ प्र॒जा जाय॑न्ते॒ तस्मा॒दासाद्य॑ ह॒वीᳪष्य॒ग्निं म॑न्थन्ति ॥ १९॥ नव॑प्रया॒जं भ॑वति । नवा॑नुया॒जं दशा॑क्षरा॒ वै वि॒राड्यैतामु॒भयतो॒ न्यूनां॑ वि॒राजं॑ करोति प्र॒जनन॑ायैत- स्मा॒द्वाऽउ॒भयतो॒ न्यूनात्प्र॒जननात्प्र॒जाप॑तिः प्र॒जाः स॒सृज॒ऽइ॒तश्चोर्ध्वा॑ इ॒तश्चावाची॑स्त- थो॒ऽए॒वैष ए॒तस्मादु॒भयत ए॒व न्यूनात्प्र॒जननात्प्र॒जाः सृज॒तऽइ॒तश्चोर्ध्वा॑ इ॒तश्चावा- ची॑स्त॒स्मान्नव॑प्रया॒जं भ॑वति॒ नवा॑नुया॒जम् ॥ २०॥ त्रीणि॒ समि॑ष्टय॒जूंषि॑ भवन्ति । द्व्याय॒ इव॒ हीदं॑ ह॒विर्य॒ज्ञाय॒त्र नव॑प्रया॒जं नवा॑नुया॒जमथो॒ऽअन्य॑कमे॒व स्याद्ध॒विर्य- ज्ञो हि तस्य॑ प्रथ॒मतो गौर्दक्षिणा ॥ २१॥ ए॒तेन॒ वै प्र॒जाप॑तिः य॒ज्ञेनेष्ट्वा॑ । येयं॑ प्र॒- जाप॑तेः प्र॒जाति॑र्या श्रीरे॒तदु॑भूवैताꣳ ह॒ वै प्र॒जातिं॑ प्र॒जायत॒ऽएताꣳ श्रियं॑ गच्छति॒ य ए॒वं वि॒द्वान॑ने॒तेन॑ य॒ज्ञेन॒ यज॑ते॒ तस्मा॒द्वाऽए॒तेन॑ यजेत ॥२२॥ ब्रा॒ह्मणम् ॥ २ [५.१.] ॥ ४ ॥ वै॒श्व॒देवेन॒ वै प्र॒जाप॑तिः । प्र॒जाः स॒सृजे॒ ता अ॑स्य प्र॒जाः सृ॒ष्टा वरु॑णस्य यवा- न्ज॒क्षुर्गुरुण्यो॑ ह वाऽअ॒ग्रे यवस्ता॒स्त्वेव वरु॑णस्य यवा॒न्प्राद॒स्तस्माद्वरुणप्रघासा नाम ॥ १॥ ता वरु॑णो जग्राह् । ता वरु॑णगृहीताः प॒रिदी॑र्णा अन॒त्यश्च॒ प्राणत्य॑- श्च शिश्यि॒रे च॒ निषे॒दुश्च प्रा॒णोदा॒नौ हैवाभ्यो नाप॑चक्रमतुर॒न्यान्व्याः सर्वा॑ दे॒वता अप॑चक्रमुस्तयो॑र्हैवास्य हेतोः प्र॒जा न परा॑बभूवुः ॥ २॥ ता ए॒तेन ह॒विषा प्र॒जा- पति॑रभिषज्यत् । तया॒श्चैवास्य प्र॒जा जाता आस॒न्द्याश्चाजातास्ता उ॒भयी॑र्वरुणपाशा-