भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 322, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 322

३०४ शतपथ ब्राह्मण दक्षि॒णार्धे गार्ह॑पत्यस्य षट्प॒न्नान्यु॑पदधाति तद्य॒देतां दक्षि॑णां दिशँ सच॑न्तऽए॒षा हि दिक् पि॑तॄणां तस्मा॑देतां दक्षि॑णां दिशँ सचन्ते ॥ ९॥ अथ दक्षि॑णेनान्वाहार्य- प॒चनं । च॒तुःस्र॑क्तिं वेदिं करोत्यवान्तरदिशोऽनु॒ स्रक्तीः करोति चतस्रो वाऽअ- वान्तरदिशोऽवान्तरदिशो वै पित॒रस्तस्मादवान्तरदिशोऽनु स्रक्तीः करोति ॥ १०॥ तन्मध्येऽग्निँ समाद॑धाति । पुर॒स्ताद्धि दे॒वाः प्रत्यञ्चो मनुष्यानभ्युपा॒वृत्तास्तस्मा॒त्ते- भ्यः प्राङ् तिष्ठञ्जुहोति सर्व॒तः पितरोऽवान्तरदिशो वै पितरः सर्व॒त-इव॒ हीमा अ॒वान्तर॒दिशस्तस्मान्मध्येऽग्निँ समा॒दधाति ॥ ११॥ स तत एव प्राङ् स्तम्बयजुर्ह- रति । स्तम्बयजुर्हृत्वा॑वि॒त्येवाग्रे परिगृह्णात्यवेत्यथेति पूर्वेण परिग्रहेण परिगृह्य लिखति कूरति॒ यद्धार्यं भवति स तथै॒वोत्तरेण परिग्रहेण परिगृह्णात्युत्तरेण परि ग्रहेण परिगृह्य प्रतिमृश्याह प्रोक्षणीरासादयेत्यासादयन्ति प्रोक्षणीरिध्मं बर्हिरुप- सादयन्ति स्रुचः संमार्ष्ट्याग्रेणोदेति स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णाति ॥ १२॥ तदाहुः । द्विरुपभृति गृह्णीयाद्वौ ह्यत्रानूयाजौ भवत इति तद्वाष्टावेव कृत्व उपभृ- ति गृह्णीयान्नेद्य॒ज्ञस्य विधाया अपयानीति तस्मादष्टावेव कृत्व उपभृति गृह्णीयादा- ज्यानि गृहीत्वा स पुनः प्राचीनावीती भूत्वा ॥ १३॥ प्रोक्षणीरध्वर्युरादत्ते । स इ- ध्ममेवाग्रे प्रोक्ष्य वेदिमथास्मै बर्हिः प्रयच्छन्ति तत्पुरस्तादञ्चासादयति तत्प्रो- क्ष्योपनिनीय विस्रँस्य ग्रन्थिं न प्रस्तरं गृह्णाति सकृदु ह्येव पराचः पितॄस्त- स्मान्न प्रस्तरं गृह्णाति ॥ १४॥ अथ संनहनमनुविस्रँस्य । अपसलवि त्रिः परि- स्तृणन्नेति सोऽपसलवि त्रिः परिस्तीर्य यावत्प्रस्तरभाजनं तावत्परिशिनष्ट्यथ पुनः प्रसलवि त्रिः पर्येति यत्पुनः प्रसलवि त्रिः पर्येति तद्यानेवामूंस्त्रयानृत्वी- नन्ववागात्तेभ्य ए॒वैतत्पुनरपोदेतीमँ स्वं लोकमभि तस्मात्पुनः प्रसलवि त्रिः पर्येति ॥ १५॥ स दक्षिणेव परिधीन्परिदधाति । दक्षिणा प्रस्तरँ स्तृणाति ना- न्तर्दधाति विधृती सकृदु ह्येव पराञ्चः पितरस्तस्मान्नान्तर्दधाति विधृती ॥ १६॥ स