भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 324, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 324

३०६ शतपथ ब्राह्मण त॒त्र जुहू॒मासा॑दयति । अथ पूर्व्वा॒मुप॑भृत॒मथ ध्रुवामथ पुरोडाश॒मथ धाना अथ म- न्थ॒मासा॑द्य ह॒वींᳵषि॒ संमृ॑शन्ति ॥ १७ ॥ ते सर्व्व॒ऽए॒व य॒ज्ञोपवी॒तिनो भू॒त्वा । इत्या- द्यज॑मानश्च ब्र॒ह्मा च पश्चा॒त्यरी॑तः पुर॒स्ताद॒ग्नीत् ॥ १८ ॥ तेनो॒पांᳵशु च॑रन्ति । ति॒र्- इव वै पि॒तर॑स्ति॒र्-इ॑वैतद्यदुपां॒ᳵशु तस्मादुपांᳵशु चरन्ति ॥ १९ ॥ प॒रिवृ॑ते चरन्ति । ति॒र्-इ॑व वै पि॒तर॑स्ति॒र्-इ॑वैतद्यत्प॑रिवृतं तस्मात्प॑रिवृते चरन्ति ॥ २० ॥ अ॒ग्नेध्म- म॒भ्याद॑धातु । अ॒ग्नये॑ समिध्यमा॒नाया॑नुब्रूहीति स ए॒कामे॑व होता सामिधेनीं त्रि- र॒न्वाह॒ सकृ॑द्ध्येव प॒राञ्चः पि॒तर॒स्तस्मा॑दे॒काᳵ होता सामिधेनीं त्रि॒रन्वाह॑ ॥ २१॥ सो॒ऽन्वाह॑ । उ॒शन्त॑स्त्वा निधीम॒ह्युश॑न्तः समिधीमहि । उ॒शन्नु॑शत॒ आव॑ह पि॒तॄन्ह॒- वि॒षेऽत्त॑व॒ऽइत्य॒थाग्नि॒माव॑ह॒ सोम॒माव॑ह पि॒तॄन्त्सोम॑वत॒ आव॑ह पि॒तॄन्ब॑र्हि॒षद॒ आव॑ह पि॒तॄन॒ग्निष्वा॒त्तानाव॑ह दे॒वां३ᳵआ॒ज्यपां३ᳵश्चाव॒हाग्निᳵ होत्रा॒याव॑ह॒ स्वं म॑- हि॒मान॒माव॒हेत्या॑वा॒ह्योप॑विशति ॥ २२ ॥ अथा॒श्राव्य॒ न होता॑रं वृणीते । पि॒- तृय॒ज्ञो वा॒ऽअयं नेद्धोतारं॑ पितृ॒षु दधानी॑ति॒ तस्मान्न॒ होता॑रं वृणीते सी॒द हो- तरित्ये॒वाहो॑प॒विश॑ति॒ होता होतृषद॑न॒ऽउप॑विश्य प्र॒सौती॑ प्रसू॒तोऽध्व॒र्युः स्रुचावा- दाय॑ प्रत्य॒ङ्ङुति॑क्रामत्यतिक्रम्या॒श्राव्या॑ह॒ समि॑धो॒ यजे॑ति सो॒ऽपब॑र्हिषश्च॒तुरः॑ प्रया॒जा- न्य॑जति प्र॒जा वै ब॒र्हिर्न्नेत्प्र॒जाः पि॒तृषु दधानी॑ति॒ तस्मा॑दुपब॒र्हिषश्च॒तुरः॑ प्रया॒जान्य- जत्यथा॒ऽऽज्य॑भागाभ्यां चर॒त्याज्य॑भागाभ्यां चरित्वा॒ ॥ २३ ॥ ते सर्व्व॒ऽए॒व प्राची॑नावी- तिनो भू॒त्वा । ए॒तैर्वै ह॒विर्भिः॑ प्रच॑रिष्यन्त इत्या॒द्यज॑मानश्च ब्र॒ह्मा च पु॒रस्तात्प॒- री॑तः पश्चाद॒ग्नीत्त॒दुता॑श्राव॒यन्त्यो॒३ᳵ स्वधेत्य॒स्तु स्व॒धेति॑ प्रत्या॒श्राव॑णं॒ स्वधा नम॒ इति वषट्कारः ॥ २४ ॥ तदु॒ होवा॑चासुरिः । आश्रावयेयु॑रे॒व प्रत्या॒श्राव॑येयुर्वषट्कुर्यु- र्न्नेद्य॒ज्ञस्य विधाया॒ अया॒मेति॑ ॥ २५ ॥ अथा॑ह पि॒तृभ्यः सोम॑वद्भ्यो॒ऽनुब्रू॒हीति॑ । सो- माय॑ वा पि॒तृम॑ते स द्वे पु॒रोऽनुवा॒क्ये॒ऽअन्वाहैकया॒ वै दे॒वान्प्र॒च्याव॑यति द्वाभ्यां॑ पि॒तॄन्सकृ॑द्ध्येव प॒राञ्चः पि॒तर॒स्तस्मा॑द्द्वे पु॒रोऽनुवा॒क्ये॒ऽअन्वाह॑ ॥ २६ ॥ स उप॑-