शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 332, कुल 699 में से
संदर्भ में पढ़ेंᳬन्त्काह्विषा ह॒ वै दे॒वा वृ॒त्रं ज॑घ्नुः । तेनो॑ऽए॒व व्य॑जयन्त॒ येय॑मेषां वि॒जिति॒स्ता- मथ॒ याने॑वेषां तस्मिन्त्स॑ङ्ग्रामेऽशव॒ आर्च्छंस्ताने॒तेरे॒व शल्या॑न्निर॑हर॒न्त॒ तान्व्य॑वृञ्ज्त यत्त्र्य॑म्ब॒कैर॒यज॑न्त ॥१॥ अथ॒ यदे॒ष ए॒तैर्यज॑ते । तन्मा॒नू ष्ये॑वैतस्य तथा कं चनेषु- र्ऋच्छतीति॑ दे॒वा अ॑कुर्व॒न्निति॒ त्वेवैष ए॒तत्क॑रोति॒ याश्च॒ त्वे॒वास्य॑ प्र॒जा जा॒ता याश्चा- जा॑तास्ता॒ उभयी॑ रु॒द्रिया॒त्प्रमु॑ञ्चति ता अ॒स्यानमी॒वा अ॑किल्वि॒षाः प्र॒जाः प्र॒जाय॑न्ते तस्मा॒द्वाऽए॒ष ए॒तैर्यज॑ते ॥२॥ ते वै रौ॒द्रा भव॑न्ति । रु॒द्रस्य॒ ही॑षू॒त्तस्मा॑द्रौ॒द्रा भव॑- न्त्ये॑ककपाला भव॒न्त्ये॑कदे॒वत्या॒ अस॒न्निति॒ तस्मा॑देककपाला भव॑न्ति ॥३॥ ते वै प्र॒तिपु॑रुषं । याव॑न्तो गृ॒ह्याः स्युस्ताव॑न्त एके॒नाति॑रिक्ता भव॑न्ति तत्प्र॒तिपु॑रुषमे॒- वैतदे॒कैकेन॒ या अ॒स्य प्र॒जा जा॒तास्ता रु॒द्रिया॒त्प्रमु॑ञ्चत्येके॒नाति॑रिक्ता भव॑न्ति तया॑ ह॒वास्य प्र॒जा अ॑जा॒तास्ता रु॒द्रिया॒त्प्रमु॑ञ्चति॒ तस्मा॑देके॒नाति॑रिक्ता भव॑न्ति ॥४॥ स ज॒घने॑न गार्ह॑पत्यं । य॒ज्ञोप॑वी॒ती भू॒त्वोद॒ङ्ङासी॑न ए॒तान्गृ॑ह्णाति॒ स तत ए॒वोत्था॑- योद॒ङ्तिष्ठ॒न्नवे॑क्ष्य॒दीचौ॑ दृष॒दुप॑लेऽउपदधात्युत्तरार्धे गार्हपत्यस्य कपा॒लान्युप॑दधा- ति तद्य॑दे॒व ता॒मुत्त॑रां दिश॑ꣳ सच॑त॒ऽए॒षा ह्ये॑तस्य दे॒वस्य॒ दिक्स्तस्मा॑देता॒मुत्त॑रां दि॒- शंꣳ सच॑न्ते ॥५॥ ते वा॒ अक्ताः स्युः । अ॒क्तꣳ हि ह॒विस्त्व॑ऽउ वाऽअन॑क्ता ए॒व स्यु॒रभि॑मानुको ह रु॒द्रः प॒शून्त्स्याद्यद॒ञ्ज्यात्तस्मा॑दन॒क्ता ए॒व स्युः ॥६॥ तान्त्सार्धं पा- त्राꣳ समुद्रा॑स्य । अन्वा॒हार्य॑पचनादु॒ल्मुकमादा॑योदङ् परे॒त्य जु॑होत्ये॒षा ह्ये॑तस्य दे॒वस्य॒ दिक् पथि॑ जुहोति पथा हि स दे॒वश्च॑रति चतुष्पथे जुहोत्येतद्द् वा॒ऽअस्य शथि॑तं प्रज्ञातमवसानं यच्चतुष्पथं तस्माच्चतुष्पथे जुहोति ॥७॥ पलाशस्य पला- शेन मध्यमेन जुहोति । ब्रह्म वै पलाशस्य पलाशं ब्रह्म॑णैवैतज्जु॑होति स सर्वे- वानेवावद्यत्येकस्यैव नावद्यति य एषोऽतिरिक्तो भवति ॥८॥ स जुहोति । एष ते रुद्र भागः सह॒ स्वस्रा॑म्बिकया॒ तं जु॑षस्व स्वाहेत्य॑म्बिका ह॒ वै ना॒मास्य॒ स्वसा तया॒स्यैष॒ सह॒ भागस्तद्यदेष॒ स्त्रिया॒ सह॒ भागस्तस्मा॒त्त्र्य॑म्बका नाम तथा॒ अस्य