भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 38, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 38

२० शतपथ ब्राह्मण त्ति ॥ १७॥ स॒ समा॑ङ्क्ति । कु॒क्कुटो॑ऽसि॒ मधु॑जिह्व॒ इति॒ मधु॑जिह्वो वै स दे॒वेभ्य आ॑सीद्विष॑जिह्वोऽसु॑रेभ्यः स यो दे॒वेभ्य॒ आसी॑त् स न ए॒धीत्ये॒वैतदा॑हा॒क्षिमू॑र्द्धमाव॒द त्वया॑ व॒यं स॑ङ्घा॒तं॑संघातं॑ जेष्मेति॒ नात्र॑ तिरो॒हित॑मिवास्ति ॥ १८॥ अथ॒ शूर्प॒मा- द॑त्ते । व॒र्ष॒वृद्ध॑मसीति व॒र्ष॒वृद्धं॒ ह्ये॑तद्यदि नडानां यदि वेणूनां यदीषीकाणां वर्ष- मु॒क्त्यैवैतद्व॑र्धयति ॥ १९॥ अथ ह॒विर्निर्व॑पति । प्रति॑ त्वा व॒र्ष॒वृद्धं॒ वेत्त्विति॑ वर्ष- वृद्धा उ॒ ह्ये॑वैते॒ यदि॑ व्रीहयो॒ यदि॒ यवा॑ वर्षमु॒क्त्यैवैतान्व॑र्धयति॒ तत्संज्ञा॑मे॒वैतच्छूर्पा॑य च वदति॒ नेद॒न्योऽन्यं॑ हि॒नसा॒त॒ऽइति॑ ॥ २०॥ अथ निष्पुनाति । परा॑पूत॒ꣳ रक्षः॒ परा॑पूता॒ अरा॑तय॒ इत्यथ॑ तुषान॒पह॒न्त्यपह॑तं॒ रक्ष॒ इति॒ तन्मा॒ष्ट्र्य॑ ए॒वैतद्रक्षाꣳस्यतो॒ ऽपह॑न्ति ॥ २१॥ अथापविनक्ति । वा॒युर्वो विवि॑नक्त्वित्ययं वै वायुर्योऽयं पवत ऽएष वा॒ऽइदꣳ सर्वं॒ विवि॑नक्ति॒ यदि॒दं किंच॒ विविच्य॑ते॒ तदे॒नान्त्वेष॒ ए॒वैतद्विवि॑नक्ति स॒ यदि॒तऽए॒तत्प्राप्नुवन्ति॒ यन्निनानद्यपविनक्ति ॥ २२॥ अथानुमन्त्रयते । दे॒वो वः॑ स- वि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णात्वच्छिद्रेण पा॒णिना सुप्र॑तिगृहीता अस॒न्नित्यथ त्रिः फली॑करोति त्रि॒वृद्धि य॒ज्ञः ॥ २३॥ तद्धैके दे॒वेभ्यः॒ शुन्ध॑ध्वं दे॒वेभ्यः॒ शुन्ध॑ध्व॒मिति॑ फ- ली॑कुर्वन्ति तदु॑ तथा॒ न कुर्याद॒दिष्टं॒ वाऽए॒तद्देव॑तायै ह॒विर्भवत्यथे॑तद्दे॒वदे॒वं करो॑- ति यदाह दे॒वेभ्यः॒ शुन्ध॑ध्व॒मिति॒ तत्सम॑दं करोति तस्माद् तूष्णी॑मेव॒ फली॑कुर्यात् ॥ २४॥ ब्राह्मणम् ॥४॥ अध्यायः ॥१॥ स वै क॒पालान्ये॒वान्यत॑र् उपदधाति । दृषदुपलेऽअन्यतरस्तद्द्वाऽएतदुभयंꣳ सह क्रियते तद्यदेतदुभयंꣳ सह॒ क्रिय॑ते ॥ १॥ शिरो ह॒ वाऽए॒तद्य॒ज्ञस्य॒ यत्पुरोडाशः स यान्या॑स्थीनि॒ शीर्षः॑ क॒पालान्ये॑तान्ये॒वास्य क॒पालानि मस्तिष्क॒ऽए॒व पिष्टानि॑ त- द्वाऽए॒तद्द्विकाम्प्र॑मिकꣳ सह॒ करवाव समा॒नं कर॒वावेति॒ तस्माद्द्वाऽएतदुभयंꣳ सह॒ क्रि- य॑ते ॥ २॥ स यः क॒पालान्यु॑पद॒धाति॑ । स उ॑पवेषमा॒दत्ते धृष्टिर॑सीति॒ स य॒दैनेना- ग्निं धृ॒ष्णुर्वाप॑चरति॒ तेन धृष्टिरथ॒ यदेनेन य॒ज्ञ उपा॑लभत॒ उपेव वाऽए॒नेनैतद्देवेष्टि॑